________________
विरतेरभ्यासः - श्लो० २२ ॥ ]
[ ८९
तत्प्रतिपातश्च लिङ्गेनावसीयते तदेवाह - अवर्णो व्रतानां व्रतदेशकानां व्रतवतां वा अश्लाघा अवज्ञा वा अनादर आदिर्यस्य तदवर्णादि (तेन) अवज्ञा (णा) दिना, आदिशब्दात्तद्रक्षुणोपायाऽप्रवृत्त्यादि च । लिङ्गं लक्षणमिह व्रतपरिणामपरिपात इति । न च वाच्यं –‘विनिर्गत(विरति ) परिणामाभावे कथं व्रतग्रहणम् ? इति, उपरोधादिना तस्य सम्भवात् । श्रूयते ह्यनन्तानि द्रव्यतः श्रमणत्व - श्रावकत्वोपादानानीति प्रथमगाथार्थः ।
प्रस्तावितोपदेशमेवाह- 'तम्हा' गाहा 'तित्थंकर' गाहा । यस्मादसन्नपि विरतिपरिणामः प्रयत्नाज्जायते, प्रयत्नं विना चाऽकुशलकर्मोदयात् सन्नपि प्रतिपतति, तस्मात् कारणान्नित्यस्मृत्या सार्वदिकस्मरणेन भगवति यतितव्यमिति । तथा बहुमानेन भावप्रतिबन्धेन, चशद्वः समुच्चये, अधिकृतगुणेऽङ्गीकृतगुणे सम्यक्त्वाणुव्रतादौ, इदं पूर्वपदाभ्यामुत्तरपदेन च सह प्रत्येकं योज्यते । तथा 'प्रतिपक्षजुगुप्सया' मिथ्यात्वप्राणिवधाद्युद्वेगेन तथा ‘परिणत्यालोचनेन' अधिकृतगुणविपक्षभूता मिथ्यात्वप्राणातिपातादयो दारुणफलाः, अधिकृतगुणा वा सम्यक्त्वाऽणुव्रतादयः परमार्थहेतव एव इत्येवं विपाकपर्यालोचनेन, चशद्वः समुच्चय एव ।
तथा ‘तीर्थकरभक्त्या' परमगुरुविनयेन तथा 'सुसाधुजनपर्युपासनया' भावयतिलोकसेवया, चशद्वः समुच्चय एव । तथा 'उत्तरगुणश्रद्धया' प्रधानतरगुणाभिलाषेण, सम्यक्त्वे सति अणुव्रताभिलाषेण । अणुव्रतेषु सत्सु महाव्रताभिलाषेणेतिभावः, चशद्वः समुच्चय एव । 'अत्र' सम्यक्त्वाऽणुव्रतादिव्यतिकरे तत्प्रतिपत्त्युतरकालं 'सदा' सर्वकालं 'भवति' युज्यते, यतितव्यमुद्यमः कर्त्तव्यः । इति गाथात्रयार्थः ।
‘एवमसन्तो' गाहा, एवमसन्नपि व्रतग्रहणकाले 'इमो 'त्ति अयं व्रतपरिणामो जायते । जातोऽपि व्रतग्रहणकाले न पतति कदापि । तस्मादत्र व्रतग्रहणादिविधावप्रमादः कर्त्तव्यो भवतीति चतुर्थगाथार्थः । एवं च विरतेरभ्यासेनाविरतिर्जीयते । अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति । अनुभवसिद्धं चेदं लिखन - पठन - सङ्ख्यान - गान - नृत्यादिसर्वकलाविज्ञानेषु सर्वेषाम् । उक्तमपि
—
" अभ्यासेन क्रियाः सर्वा, अभ्यासात् सकलाः कलाः ।
अभ्यासाद्ध्यान- मौनादि, किमभ्यासस्य दुष्करम् ?” ॥१॥ [ ]
निरन्तरं विरतिपरिणामाभ्यासे च प्रेत्यापि तदनुवृत्तिः स्यात् । यत उक्तम् -
१. तदवर्णादि अवज्ञादिना-LPCJ || २. विनिर्गतपरि LPCJ | विरतिपरि' इति पञ्चाशकवृत्तौ ॥ ३. L.P. पञ्चाशकटीका वा० मु० C ॥ ४ भवति - इति पञ्चाशकवृत्तौ ॥
D:\new/d-1.pm5\ 3rd proof