________________
८८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः ___ नन्वेवमविरतावस्थायां विरतिपरिणामाभावे प्रत्याख्यानप्रतिक्रमणादिविरतिधर्मस्य कर्त्तव्यत्वाङ्गीकारे तात्त्विकगुणस्थानावस्था लुप्येत । न हि तुर्यगुणस्थाने पञ्चमगुणस्थानादिक्रियाकरणं युक्तियुक्तम् , अविरतसम्यग्दृष्टिगुणस्थानहानिप्रसक्तेः, नापि च क्षयोपशमादिभावभाव्यानि गुणस्थानानि अस्मदादिबाह्यौदयिकभावोद्भूतक्रियाकृष्टान्यायान्ति इति चेत् ? मैवम् , शास्त्रार्थापरिज्ञानात् , न हि तुर्यगुणस्थाने विरतिक्रियाकरणं शास्त्रे निषिद्धम् , किन्तु पारमार्थिकाध्यवसायरूपो विरतिपरिणामः । स हि असन्नपि विशुद्धव्रतग्रहणादिक्रियाकारिणां तन्माहात्म्यादेव तद्ग्रहणानन्तरं जायते, सँश्च परिवर्द्धते, न तु प्रतिपातशीलो भवति ।
अत एव क्षायोपशमिकानि गुणस्थानानि नास्मदादिबाह्यौदयिकक्रियाकृष्टान्यायान्तीतिबुद्ध्या सम्यग् क्रियायां नोदासितव्यम् , प्रयत्नेन तेषामपि सुलभत्वाद् , उपायाधीनत्वादुपेयस्य च । न चैतत् स्वमनीषिकाविजृम्भितम् , यदाहुः श्रीहरिभद्रसूरिवराः पञ्चाशकप्रकरणे सम्यक्त्वव्रतपरिणामस्थैर्यार्थं विधेयगतोपदेशप्रस्तावे -
"गहणादुवरि पयत्ता, होइ असन्तोऽवि विरड्परिणामो । अकुसलकम्मोदयओ, पडड् अवण्णाइं लिंगमिह ॥१॥ [ पञ्चा.१/३५] तम्हा णिच्चसईए, बहमाणेणं च अहिगयगणम्मी। पडिवक्खदुगंछाए, परिणइआलोअणेणं च ॥२॥[ पञ्चा.१/३६] तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए अ। उत्तरगुणसद्धाए, एत्थ सया होइ जइअव्वं ॥३॥[ पञ्चा.१/३७] "एवमसंतो वि इमो, जायइ जाओ वि पडइ न कया वि ।
ता इत्थं बुद्धिमया, अपमाओ होइ कायव्वो" ॥४॥ [ पञ्चा.१/३८] आसां व्याख्या -ग्रहणाद् 'गुरुमूले श्रुतधर्म'इत्यादिविधिना सम्यक्त्वव्रतोपादानादुपरि उत्तरकाले, प्रयत्नादुद्यमविशेषाद्धेतोर्भवति जायते । असन्नपि कर्मदोषादविद्यमानोऽपि, संस्तु भूत एवेत्यपिशब्दार्थः । कोऽसौ ? इत्याह –'विरतिपरिणाम:' प्राणातिपातादिनिवर्त्तने पारमार्थिकाध्यवसाय:, उपलक्षणत्वात् सम्यक्त्वपरिग्रहणम् , सोपक्रमत्वाद् विरत्याद्यावारककर्मणाम् , तथाविधप्रयत्नस्य च तदुपक्रमणस्वभावत्वादिति । अथोक्तविपर्ययमाह -अकुशलकर्मोदयतोऽशुभकर्मोपायादिकर्मानुभावात् पतति सन्नपि व्रतग्रहणस्योपरि प्रयत्नं विना अपयाति विरतिपरिणाम इति प्रकृतम् ।
१. 'क्रमणादि(देः) वि॰ मु० ॥ २. भावोद्भुत L । ३. पर' मु० ॥ ४. LPCJI दुगुंछाए-मु० ॥ ५. तुला-पञ्चाशकटीका ।। ६. LPCJ | 'न-मु० ॥ ७. कषाया' इति पञ्चाशकवृत्तौ ।।
D:\new/d-1.pm5\3rd proof