________________
८६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः स्याराध्यवर्गस्य शुश्रूषां, कुर्वन् गुरुशुश्रूषको भवतीति । यद्यपि गुरवो मातृपित्रादयोऽपि भण्यन्ते तथाऽप्यन्त्र धर्माधिकाराद्धर्माचार्यादय एव प्रस्तुता इति हार्दम् ।
अथ प्रवचनकुशल इति षष्ठं भावश्रावकलक्षणं चेत्थम् - सुत्ते १ अत्थे अ २ तहा, उस्सग्ग ३ ववाय ४ भाव ५ ववहारे ६ । जो कुसलत्तं पत्तो, पवयणकुसलो तओ छद्धा" ॥९॥ [ध.र./गा.५२]
सूत्रे सूत्रविषये यः कुशलत्वम् , प्राप्त इति प्रत्येकं योजनीयम् , श्रावकपर्यायोचितसूत्राध्येतेत्यर्थः । तथाऽर्थे सूत्राभिधेये संविग्नगीतार्थसमीपे सूत्रार्थश्रवणेन कुशलत्वं प्राप्त इत्यर्थः २। उत्सर्गे सामान्योक्तौ ३ अपवादे विशेषभणिते कुशलः । अयं भावः - केवलं नोत्सर्गमेवावलम्बते, नापि केवलमपवादम् , किन्तूभयमपि यथायोगमालम्बत इत्यर्थः ४। भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः ।
इदमुक्तं भवति -विधिकारिणमन्यं बहु मन्यते । स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्त्तते । सामग्र्या अभावे पुनर्विध्याराधनमनोरथान्न मुञ्चत्येवेति ५। व्यवहारे गीतार्थाचरितरूपे कुशलः देशकालाद्यपेक्षयोत्सर्गापवादवेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाचरितं व्यवहारं न दूषयतीतिभावः ६।
"एसो पवयणकसलो, छब्भेओ मणिवरेहिं निहिट्रो। किरियागयाइं छव्विह-लिंगाई भावसड्डस्स" ॥१०॥ [ध.र./गा.५५] एतानि भावश्रावकस्य क्रियोपलक्षणानि षडेव लिङ्गानि । अथ भावगतानि तान्याह - "भावगयाइं सत्तरस, मुणिणो एअस्स बिंति लिंगाई। जाणिअजिणमयसारा, पुव्वायरिआ जओ आहु ॥११॥ [ध.र./गा.५६ ] इत्थि १, दिअत्थसंसार ४, विसय ५ आरंभ ६ गेहे ७ दंसणओ ८ । गड़रिगाइपवाहे ९, परस्सरं आगमपवित्ती १० ॥१२॥ध.र./गा.५७] दाणाइ जहासत्ती, पवत्तणं ११ विहि १२ अरत्तदुढे अ १३ । मज्झत्थ १४ मसंबद्धो १५, परत्थकामोवभागी अ १६ ॥१३॥ [ध.र./गा.५८ ] वेसा इव गिहवासं, पालइ १७ सत्तरसपयनिबद्धं तु।। भावगयभावसावगलक्खणमेअं समासेणं" ॥१४॥ [ध.र./गा.५९]
१. वादविदितिगुरु L ॥ २. छच्चिय-इति धर्मरत्नप्रकरणे ॥ ३. भणिअ' इति धर्मरत्नप्रकरणे । आहू-मु०॥
४.
D:\new/d-1.pm5\3rd proof