SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भावश्रावकलिङ्गानि-श्लो० २२॥] [८५ तत् सेवते भावश्रावको न त्वनायतनमितिभावः १। शेषपदानि सुगमानि, बालक्रीडां द्यूतादिकम् ५। मधुरनीत्या सामवचनेन स्वकार्य साधयति, न तु परुषवचनेनेति षट् शीलानि ६। अधुना तृतीयं भावश्रावकलक्षणं गुणवत्स्वरूपं यथा - "जइ वि गुणा बहुरूवा, तहावि पंचहिं गुणेहिं गुणवंता । इअ मुणिवरेहिं भणिओ, सरूवमेसिं निसामेहि ॥५॥ [ध.र./गा.४२ ] सज्झाए १ करणंमि अ २, विणयंमि अ ३ निच्चमेव उज्जुत्तो। सव्वत्थऽणभिनिवेसो ४, वहइ रुइं सुट्ट जिणवयणे ५" ॥६॥ [ध.र./गा.४३] स्वाध्याये पञ्चविधे १, करणे तपोनियमवन्दनाद्यनुष्ठाने २, विनये गुर्वाद्यभ्युत्थानादिरूपे, नित्यमुद्यक्तः प्रयत्नवान् भवति ३। सर्वत्र प्रयोजनेषु अनभिनिवेशः प्रज्ञापनीयो भवति ४, तथा वहति धारयति, रुचिमिच्छां श्रद्धानमित्यर्थः । सुष्ठु बाढं जिनवचने ५, इति पञ्च गुणाः । अधुना ऋजुव्यवहारीति चतुर्थं भावश्रावकलक्षणं यथा - "उजुववहारो चउहा, जहत्थभणणं १ अवंचिगा किरिआ २। हुंतावायपगासण ३, मित्तीभावो अ सब्भावा ४" ॥१॥ [ध.र./गा.४७ ] ऋजु प्रगुणं व्यवहरणं ऋजुव्यवहारः । स चतुर्द्धा-यथार्थभणनमविसंवादिवचनम् १। अवञ्चिका पराव्यसनहेतुक्रिया मनोवाक्कायव्यापाररूपा २। 'हुंतावायपगासण'त्ति ‘हुंत'त्ति प्राकृतशैल्या भाविनोऽशुद्धव्यवहारकृतो येऽपायास्तेषां प्रकाशनं प्रकटनं करोति । 'भद्र मा कृथाः पापानि चौर्यादीनि, इह परत्र चानर्थकारीणि' इत्याश्रितं शिक्षयति ३। मैत्रीभावः सद्भावान्निष्कपटतया ४। साम्प्रतं गुरुशुश्रूषक इति पञ्चमं लक्षणं यथा - "सेवाइ १ कारणेण य २, संपायण ३ भावओ गुरुजणस्स ४ । सुस्सूसणं कुणतो, गुरुसुस्सूसो हवइ चउहा" ॥८॥ [ध.र./गा.४९] सेवया पर्युपासनेन १, कारणेन गुरुजनवर्णवादकरणादन्यजनप्रवर्त्तनेन २, सम्पादनं गुरोरौषधादीनां प्रदानम् ३, भावो गुरुजनचेतोऽनुवर्त्तनम् ४, एतैश्चतुर्भिः प्रकारैः गुरुजन १. अवंचगा-C संशो० P. संशो० ॥ २. अवञ्चका-C संशो० P संशो० ॥ ३. परावञ्चन मु० । पराव्यसन इति धर्मरत्नप्र० वृत्तौ । पराव्यंसन C.P. || ४. गुरोरौषधीनां-मु० गुरोरौषधीनां C || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy