SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ६७ सम्यक्त्वभेदा:-श्लो० २२॥] [८३ "यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते" ॥१॥[१५५६ गाथा टीका प. ८०५] अभ्युपेतसम्यक्त्व इत्यत्राभ्युपेताणुव्रतोऽपीति व्याख्यालेश इति । तच्चेहाधिकृतम् , भावस्यैव मुख्यत्वात् । भावश्रावकोऽपि दर्शनव्रतोत्तरगुणश्रावकभेदात् त्रिविधः । तद्विस्तरस्तु व्रतभङ्गाधिकारे दर्शयिष्यते, आगमे चान्यथाऽपि श्रावकभेदाः श्रूयन्ते । तथा च स्थानाङ्गसूत्रम् - "चउव्विहा समणोवासगा पण्णत्ता, तंजहा -अम्मापिइसमाणे भाइसमाणे, मित्तसमाणे, सवत्तिसमाणे, अहवा चउव्विहा समणोवासगा पण्णत्ता, तंजहाआयंससमाणे, पडागसमाणे, खाणुसमाणे, खरंटसमाणे' [ स्था.४/३/३२१ ] इति । परमेते साधूनाश्रित्य द्रष्टव्या इति न पार्थक्यशङ्कालेशः । एषामपि नामश्रावकादिष्ववतारणविचारे व्यवहारनयमते भावश्रावका एवैते । श्रावकपदव्युत्पत्तिनिमित्तमात्रयोगेन तथाव्यवह्रियमाणत्वात् । निश्चयनयमते पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावकौ, शेषास्तु भावश्रावकाः । यतस्तेषां स्वरूपमेवमागमे व्याख्यायते - "चिंतिज्जइ कज्जाइं, न दिट्ठखलिओ वि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्ढो ॥१॥[] हिअए ससिणेहो च्चिअ, मुणीण मंदायरो विणयकम्मे । भाइसमो साहूणं, पराभवे होइ सुसहाओ ॥२॥[ ] मित्तसमाणो माणा, ईसिं रूसइ अपुच्छिओ कज्जे । मन्नंतो अप्पाणं, मुणीण सयणाउ अब्भहिअं ॥३॥[ ] थद्धो छिद्दप्पेही, पमायखलिआणि निच्चमुच्चरइ । सद्धो सवत्तिकप्पो, साहुजणं तणसमं गणइ ॥४॥[ ] तथा द्वितीयचतुष्के - "गुरुभणिओ सुत्तत्थो, बिंबिज्जइ अवितहो मणे जस्स । सो आयंससमाणो, सुसावओ वन्निओ समए ॥५॥[ ] पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेणं । अविणिच्छिअगुरुवयणो, सो होइ पडाइआतुल्लो ॥६॥[] १. धाः-L.P.C. ॥ २. खरंटमाणे-मु० ॥ ३. सद्धो-मु० ॥ ४. तुला-धर्मरत्नप्रकरणस्वोपज्ञवृत्तिः प० २८ तः ॥ ५. "हा-L.P. || D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy