SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८२] [धर्मसंग्रहः-द्वितीयोऽधिकारः 'निच्चो'त्ति –स च जीवो नित्य उत्पत्तिविनाशरहितः, तदुत्पादककारणाभावादित्यादिना शौद्धोदनिमतमपध्वस्तम् २। 'कुणइ'त्ति –स च जीवः करोति मिथ्यात्वाऽविरति कषायादिबन्धहेतुयुक्ततया तत्तत्कर्माणि निर्वर्त्तयति । एतेन कापिलकल्पनाप्रतिक्षेपः ३। ‘कयमिति' –कृतं कर्म च वेद्यते "सव्वं पएसतया भज्जइ"[ ] त्ति वचनादनेन सर्वथाऽभोक्तृजीववादी दुर्नयो निराकृतः ।। 'अत्थि निव्वाणं'ति -अस्य च जीवस्यास्ति विद्यते निर्वाणं मोक्षः, स च जीवस्य राग-द्वेष-मद-मोह-जन्म-जरा-रोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावद् । एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाणमित्यादि सङ्गिरमाणाः सौगतविशेषाः व्युदस्ताः । ते च प्रदीपस्येवास्य सर्वथा ध्वंस एव निर्वाणमाहुः । तथा च तद्वचः - "दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्स्नेहक्षयात् केवलमेति शान्तिम् ॥१॥ इति जीव[ स्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशंन काञ्चित् , क्लेशक्षयात् केवलमेति शान्तिम्॥] [सौन्दरनन्दे १६।२८-२९] तच्चायुक्तम् , दीक्षादिप्रयासवैयर्थ्यात् । प्रदीपदृष्टान्तस्याप्यसिद्धत्वादियुक्तिविस्तरस्तु ग्रन्थान्तरादवसेय: ५। ___'अत्थि अ मोक्खोवाओ'त्ति –मोक्षस्य निर्वृतेरुपायः सम्यक् साधनं विद्यते सम्यग्ज्ञानदर्शन-चारित्राणां मुक्तिसाधकतया घटमानत्वात् । अनेनापि मोक्षोपायाभावप्रतिपादकदुर्नयतिरस्कारः कृतः ६।। एतान्यात्मास्तित्वादीनि षट् सम्यक्त्वस्य स्थानानि, सम्यक्त्वमेषु सत्स्वेव भवतीतिभावः । एषां च भेदानां यथासंभवं ज्ञान-श्रद्धा-चरणविधया सम्यक्त्वउपयोगित्वमिति ध्येयम् । इत्थं च देवादितत्त्वश्रद्धानविकलत्वे तथाविधाजीविकादिहेतोः श्रावकाकारधरणे द्रव्यश्रावकत्वमेव च पर्यवसन्नम् , भावश्रावकत्वं तु यथोक्तविधिप्रतिपन्नसम्यक्त्वादिर्यतिभ्यः सकाशान्नित्यं धर्मश्रवणादेव । यदुक्तं आवश्यकवृत्तौ - १. निवर्त्त० मु० P || २. कपिल मु० ॥ ३. इति जीवः (वाभाव:) तच्चा-मु० । तुलाप्रवचनसारोद्धारवृत्तिः भा० २. प १८० । एवं कृती निवृति" इति सौन्दरनन्दकाव्ये महाकविअश्वघोषकृते पाठः ॥ ४. "सिद्धत्वादि(त्यादि)युक्ति मु० ॥ ५. सम्यक्त्वमु(उ)प मु० ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy