SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ६७ सम्यक्त्वभेदाः-श्लो० २२॥] [८१ "माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गस्सतां मतः" ॥१॥ [ यो.बि./११०] तेषां निग्रहो निर्बन्धः ६। तदेताः षट् छिण्डिका अपवादरूपा जिनशासने भवन्ति । इदमत्र तात्पर्यम् –प्रतिपन्नसम्यक्त्वस्य परतीर्थिकवन्दनादिकं निषिद्धम् , तद्राजाभियोगादिभिरेभिः कारणैर्भक्तिवियुक्तो द्रव्यत: समाचरन्नपि सम्यक्त्वं नाभिचरतीति । षड्भावनायां-द्विषट्कस्यापि द्वादशभेदस्यापि पञ्चाणुव्रत-त्रिगुणव्रत-चतुःशिक्षाव्रतरूपधर्मस्य चारित्रविषयस्य इदं सम्यक्त्वं मूलमिव मूलं कारणमित्यर्थः, परिकीतितं जिनैरिति सर्वत्र सम्बन्धः । यथा मूलरहित: पादप: पवनकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सम्यक्त्वहीनः कुतीर्थिकमतान्दोलितः १। द्वारमिव द्वारं प्रवेशमुखमितिभावः । यथा ह्यकृतद्वारं नगरं सन्ततप्राकारवलयवेष्टितमप्यनगरं भवति, जनप्रवेशनिर्गमाभावात् । एवं धर्मपुरमपि सम्यक्त्वद्वारशून्यमशक्यादिगमं स्यादिति २। पइट्ठाणं-प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं पीठम् , ततः प्रतिष्ठानमिव प्रतिष्ठानम् , यथा पृथ्वीतलगतगर्त्तापूरकरहितः प्रासादः सुदृढो न भवति । तथा धर्महर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानं विना निश्चलं न भवेदिति ३। आहारो त्ति -आधारः यथा धरातलमन्तरा निरालम्बं जगदिदं न तिष्ठति । एवं धर्मजगदपि सम्यक्त्वलक्षणाधारव्यतिरेकेण न तिष्ठेदिति ।। भायणं ति -भाजनं पात्रमित्यर्थः, यथा हि पात्रविशेष विना क्षीरादि वस्तु विनश्यति, एवं धर्मवस्त्वपि सम्यक्त्वभाजनं विना ५। निहि त्ति –निधिः यथा हि निधिव्यतिरेकेण महार्हमणि-मौक्तिक-कनकादि द्रव्यं न प्राप्यते । तथा सम्यक्त्वनिधानमन्तरा चारित्रधर्मरत्नमपि ६। इत्येताभिः षड्भिर्भावनाभिर्भाव्यमानमिदं सम्यक्त्वमविलम्बेन मोक्षसुखसाधकं भवतीति । षट्स्थाने -अत्थि त्ति -अस्ति विद्यते, चशब्दस्याऽवधारणार्थत्वाज्जीव इति गम्यते, एतेन नास्तिकमतं निरस्तम् १। १. सन्ततः-इति प्रवचनसारोद्धारवृत्तौ भा० २ । प० १७६ समन्ततः-इति तत्रैव दे०ला० संस्करणे पाठः ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy