SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ८०] [धर्मसंग्रहः-द्वितीयोऽधिकारः स्थिरता जिनधर्मं प्रति परस्य स्थिरताऽऽपादनम् , स्वस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि जिनप्रवचनं प्रति निष्प्रकम्पता ४। भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः । एते गुणाः सम्यक्त्वस्य दीपकाः प्रभासकाः, उत्तमाः प्रधानाः, भूषणानि एतैः सम्यक्त्वमलङ्क्रियत इति भावः । लक्षणानि पञ्च व्याख्यातानि । ___ षड्विधयतनायाम् –अन्यतीर्थिकान् परदर्शनिनः परिव्राजकभिक्षुभौतिकादीन् अन्यतीर्थिकदेवान् रुद्रविष्णुयक्षादीन् तथा स्वदेवान् अर्हत्प्रतिमालक्षणान् कुतीथिकैदिगम्बरादिभिर्गृहीतान् भौतिकादिभिः परिगृहीतान् महाकालादीन् नो नैव वन्दे वा १॥ न नमस्यामि २, तद्भक्तानां मिथ्यात्वस्थिरीकरणात् ! तत्र वन्दनं शिरसाऽभिवादनम् , नमस्करणं प्रणामपूर्वं प्रशस्तध्वनिभिर्गुणोत्कीर्तनम् । तथाऽन्यतीथिकैः पूर्वमनालप्तः सन्नवालपामि ३, नापि संलपामि । तत्रेषद्भाषणमालापः, मुहुर्भाषणं संलाप: ४। तत्संभाषणे हि तैः स परिचयात् प्रतिक्रियाश्रवणदर्शनादिभिर्मिथ्यात्वप्रसक्तिरपि स्यादेव । तथा तेषामन्यतीथिकाणां न ददामि अशनादिकम् अनुकम्पां विहाय, अनुकम्पायाश्च कुत्राप्यनिषेधात् । यत उक्तम् - "सव्वेहिं पि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं। सत्ताणुकंपणट्ठा, दाणं न कहिं वि पडिसिद्धं ॥१॥ [गा.स./१९० ] ५। तथा तेषां परतीर्थिकदेवानां तत्प्रतिगृहीतजिनप्रतिमानां च पुजानिमित्तं नैव पश्यामि गन्धपुष्पादिकम् , आदिशब्दाद् विनय-वैयावृत्त्य-यात्रा-स्नानादिकम् ६। एताभिः षड्भिर्यतनाभिर्यतमानः सम्यक्त्वं नातिक्रामतीति । आकारषट्के -अभियोजनमभियोगोऽनिच्छतोऽपि व्यापारणम् , तत्र राज्ञो नृपादेरभियोगो राजाभियोगः १। गणः स्वजनादिसमुदायस्तस्याभियोगो गणाभियोग: २। बलं हठप्रयोगस्तेनाभियोग: ३। सुरस्य कुलदेवतादेरभियोग: ४। कान्तारमरण्यं तत्र वृत्तिर्वर्त्तनं निर्वाह: कान्तारवृत्तिर्यद्वा कान्तारमपि बाधाहेतुत्वादिह बाधात्वेन विवक्षितं तेन कारणेन बाधया वृत्तिः प्राणवर्तनरूपा कान्तारवृत्तिः कष्टेन निर्वाह इति यावत् ५। गुरवो मातृपितृप्रभृतयः । यदुक्तम् - १. निष्कम्पता-मु० । निष्प्रकम्पता-LP | निष्पुकंपता-C || योगशास्त्रप्रवचनसारोद्धार[भा० २ प० १७३]वृत्त्योरपि-निष्प्रकम्पता ॥ २. “भिः-मु० नास्ति ॥ ३. प्रेक्ष्यामि-मु० । प्रेषयामि-इति प्रवचनसारोद्धारवृत्तौ खण्ड २। प० १७५ ॥ ४. त्तिर्यद्वा कष्टेन-L.C. ॥ ५. मातृ(ता)पितृ० मु०॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy