SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६७ सम्यक्त्वभेदा:-श्लो० २२॥] [७९ मुक्त्वा शेषमेकान्तग्रस्तं जगदपि संसारमध्ये कत्तवारं, कचवरप्रायम् , असारमित्यर्थः । इतिचिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुद्धय इति । पञ्च दोषा अग्रे मूल एव वक्ष्यमाणाः । अष्टप्रभावनायां -प्रभवति जैनेन्द्र शासनम् , तस्य प्रभवतः प्रयोजकत्वं प्रभावना । सा चाष्टधा प्रभावकभेदेन तत्र प्रवचनं द्वादशाङ्गं गणिपिटकम् , तदस्यास्तीति प्रावचनी युगप्रधानागमः १। धर्मकथा प्रशस्ताऽस्यास्तीति धर्मकथी, “शिखादित्वादिन्'[शिखादिभ्य इन् श्रीसि० ७।२।४] आक्षेपणी १ विक्षेपणी २ संवेगजननी ३ निर्वेदनी ४ लक्षणां चतुर्विधां जनितजनमनःप्रमोदां धर्मकथां कथयति सः २। वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षक्षेपपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी ३। निमित्तं त्रैकालिकलाभाऽलाभप्रतिपादकं शास्त्रम् , तद्वेत्त्यधीते वा नैमित्तिकः ।। तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी ५। विद्याः प्रज्ञप्त्यादयस्तद्वान् विद्यावान् ६। सिद्धयोऽञ्जनपादलेपतिलकगुटिकाकर्षणवैक्रियत्वप्रभृतयस्ताभिः सिद्ध्यति स्म सिद्ध: ७/ कवते गद्य-पद्यादिभिः प्रबन्धैर्वर्णनामिति कविर्गद्यपद्यप्रबन्धरचक: ८। एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहाय्यकरणात् प्रभावकाः, प्रभवन्तं स्वतः प्रकाशकस्वभावमेव प्रेरयन्तीति व्युत्पत्तेः, तेषां कर्म प्रभावना । इत्थं च मूलद्वारगाथायाम् अष्टौ प्रभावना यत्रेति समासः । भूषणपञ्चके-जिनशासनेऽर्हद्दर्शनविषये कुशलता नैपुण्यं १, प्रभावना प्रभावनमित्यर्थः । सा च प्रागष्टधाऽभिहिता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थकरनामकर्मनिबन्धनत्वेन च प्राधान्यख्यापनार्थम् २, तथा तीर्थं द्रव्यतो जिनदीक्षाज्ञाननिर्वाणस्थानं । यदाह "जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं, आगाढं दंसणं होइ" ॥१॥[ ] त्ति । भावतस्तु ज्ञानदर्शनचारित्राधारः श्रमणसङ्घः, प्रथमगणधरो वा । यदाह - "तित्थं तित्थं ? तित्थयरे तित्थं ! गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णे समणसंघं पढमगणहरे वा" [भगवतीसूत्रे उ. २०/सू. ६८२] इति । तस्य सेवनम् ३। १. कत्तवारं-मु० नास्ति । २. तुला-योगशास्त्रवृत्तिः २।१६ प० १८४ ॥ ३. शिखादित्वादिन् क्षेपणी- L.P.C. || ४. प्रभावनमित्यर्थः सा च-L नास्ति । सा च-P नास्ति ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy