________________
७८ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
त्रिविधं लिङ्गं त्रिलिङ्गं –दशविधो विनयो दशविनयः । त्रिविधा शुद्धिस्त्रिशुद्धिरित्यादि व्युत्पत्तिर्ज्ञेया ।
त्रिलिङ्गे - श्रोतुमिच्छा शुश्रूषा, सद्बोधावन्ध्यनिबन्धनधर्मशास्त्र श्रवणवाञ्छेत्यर्थः । सा च वैदग्ध्यादिगुणवत्तरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति । यदाह
"यूनो वैदग्ध्यवतः, कान्तायुक्तस्य कामिनोऽपि दृढम् ।
किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः " ॥ १ ॥ [ षोड. ११ / ३ ] इति १ ।
तथा धर्मे चारित्रलक्षणे रागः, श्रुतधर्मरागस्य तु शुश्रूषापदेनैवोक्तत्वात् । स च कर्मदोषात् तदकरणेऽपि कान्तारातीतदुर्गतबुभुक्षाक्षामकुक्षिब्राह्मणघृतभोजनाभिलाषादप्यतिरिक्तो भवति २ ।
तथा गुरवो धर्मोपदेशका देवा अर्हन्तस्तेषां वैयावृत्त्ये तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ नियमोऽवश्यङ्कर्त्तव्यताङ्गीकारः, स च सम्यक्त्वे सति भवतीति ३ । तानि सम्यग्दृष्टेः धर्मधर्मिणोरभेदोपचारात् सम्यक्त्वस्य लिङ्गानि, एभिस्त्रिभिलिङ्गैः सम्यक्त्वं समुत्पन्नमस्तीति निश्चीयत इति भावः । वैयावृत्त्यनियमस्य च तपोभेदत्वेन चारित्रांशरूपत्वेऽपि सम्यक्त्वसत्त्वे चावश्यम्भावित्वेऽपि नाविरतसम्यग्दृष्टिगुणस्थानकाऽभावप्रयोजकतोद्भाव्या। एतद्रूपचारित्रस्याल्पतमत्वेनाचारित्रतया विवक्षितत्वात् । संमूर्छनजानां संज्ञामात्रसद्भावेऽपि विशिष्टसंज्ञाऽभावादसंज्ञित्वव्यपदेशवदिति । उपशान्तमोहादिषु तु कृतकृत्यत्वादेषां साक्षादभावेऽपि फलतया सद्भावान्न तेष्वप्येतेषां व्यभिचारः । वैयावृत्त्यनियमश्चोपरिष्टात् श्राद्धविधिपाठेन दर्शयिष्यत इति ततोऽवसेयः ।
दशविनये चैत्यान्यर्हत्प्रतिमाः, प्रवचनं जीवादितत्त्वं, दर्शनम् सम्यक्त्वं तदभेदोपचारात् तद्वानपि दर्शनमुच्यते । एतेषु दशसु भक्तिरभिमुखागमनाऽऽसनप्रदान- पर्युपास्त्यञ्जलिबन्धाद्या, पूजा सत्काररूपा, वर्ण: प्रशंसा, तज्जननमुद्भासनम्, अवर्णवादस्याश्लाघाया वर्ज्जनं परिहारः । आशातना प्रतीपवर्त्तनं तस्याः परिहारः । एष दशस्थानविषयत्वाद् दशविधो दर्शनविनयः, सम्यक्त्वे सत्यस्य भावात् सम्यक्त्वविनयः ।
त्रिशुद्धयां जिनं वीतरागं जिनमतं स्यात्पदलाञ्छितं जिनमतस्थितांश्च साध्वादीन् १. गुणोत्तरतरुण' इति प्रवचनसारोद्धारवृत्तौ २ । पृ० १६९ ॥ २. सम्यक्त्वे सत्येवावश्यं मु० ॥
D:\new/d-1.pm5\3rd proof