________________
सम्यक्त्वभेदा:-श्लो० २२॥] पतनम् , तदग्रे नमः शिवायेत्यादिभणनम् , तत्कथाश्रवणम् , तदुक्तक्रियाकरणतः कथाश्रवणबहुमानकरणादिना च विविधम् २।।
लोकोत्तरदेवगतं तु परतीर्थिकसंगृहीतजिनबिम्बार्चनादिना इहलोकार्थं जिनयात्रागमनमाननादिना च स्यात् ३।
लोकोत्तरगुरुगतं च पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादिना गुरुस्तूपादावैहिकफलार्थं यात्रोपयाचितादिना चेति भेदचतुष्टयी । तदुक्तं दर्शनशुद्धिप्रकरणे - "दुविहं लोइअमिच्छं, देवगयं गुरुगयं मुणेअव्वं । लोउत्तरिअंपि दुविहं, देवगयं गुरुगयं चेव ॥१॥[ द.प्र./२४३, सम्बो.प्र. सम्य./गा.४४] चउभेअं मिच्छत्तं, तिविहं तिविहेण जो विवज्जेइ । अकलंकं सम्मत्तं, होइ फुडं तस्स जीवस्स"॥२॥[द.प्र./२४४,सम्बो.प्र.सम्य./गा.४५]
त्रिविधं त्रिविधेनेत्यत्र भावनामेवमाह: - "एयं अणंतरुत्तं, मिच्छं मणसा न चिंतइ करेमि । सयमेव सो सो करेउ, अन्नेण कए व सुठ्ठ कयं ॥१॥ [ सम्बो.प्र. सम्य./गा.४६ ] एवं वाया न भणइ, करेइ अण्णं च न भणइ करेह । अन्नकयं न पसंसइ, न कुणइ सयमेव काएणं ॥२॥ [ श्रा.ध.वि./गा.३२] करसन्नभमुहखेवाइएहिं न य कारवेइ अन्नेणं । अन्नकयं न पसंसइ, अण्णेण कयं च सुट्ठ कयं" ॥३॥ [ श्रा.ध.वि./गा.३४]
[ननु त्रिविधं त्रिविधेन प्रत्याख्यातमिथ्यात्वस्य मिथ्यादृष्टिसंसर्गे कथं नानुमतिरूपमिथ्यात्वप्रसङ्ग इति चेत् ? न, तस्याप्यतिचाररूपस्य वर्जनीयत्वस्यैवोक्तत्वात् । स्वकुटुम्बादिसम्बन्धिनो मिथ्यादृशो वर्जनाशक्तौ संवासानुमतिः स्यादिति चेत् ? न, आरम्भिणा संवासे आरम्भक्रियाया बलात् प्रसङ्गात् संवासानुमतिसंभवेऽपि मिथ्यात्वस्य भावरूपत्वेन तदसम्भवात् । अन्यथा संयतस्यापि मिथ्यादृष्टिनिश्राया अपि सम्भवेन तत्संवासानुमतेर्दुरित्वादिति दिक्]
यद्यपि तत्त्ववृत्त्या अदेवादेर्देवत्वादिबुद्ध्याऽऽराधने एव मिथ्यात्वम् , तथाप्यहिकाद्यर्थमपि यक्षाद्याराधनमुत्सर्गतस्त्याज्यमेव । परम्परया मिथ्यात्ववृद्धि-स्थिरीकरणादिप्रसङ्गेन प्रेत्य दुर्लभबोधित्वापत्तेः । यतः -
१. जैन० मु० ॥ २. छोडिय हेसियाइ चेट्ठाहि-इति श्राद्धधर्मविधिप्रकरणे ॥ ३. बलात्प्रसवात् मु०॥
D:\new/d-1.pm5\3rd proof