________________
७०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "अन्नेसिं सत्ताणं, मिच्छत्तं जो जणेइ मूढप्पा । सो तेण निमित्तेणं, न लहइ बोहिं जिणाभिहिअं" ॥१॥[सं.प्र.सम्य./गा.४२ ]
रावण-कृष्णाद्यालम्बनमपि नोचितमेव कालभेदात् । यतस्तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायित्वेन न मिथ्यात्ववृद्धिस्तादृशी । सम्प्रति च स्वभावतोऽपि मिथ्यात्वप्रवृत्तिर्दुर्निवारैवेति । अथ मिथ्यात्वं पञ्चविधं । यदाह - "आभिग्गहिअमणभिग्गहं च तह अभिनिवेसिअंचेव । संसइअमणाभोगं, मिच्छत्तं पंचहा एअं" ॥१॥[पञ्च.गा. ८६/सं.प्र.सम्य.गा.४७ ]
तत्राभिग्रहिकं पाखण्डिनां स्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणाम् , जैनानां च धर्माऽधर्मवादेन परीक्षापर्वं तत्त्वमाकलय्य स्वाभ्यपगतार्थं श्रद्धमानानां परपक्षप्रतिक्षेपणदक्षत्वेऽपि नाभिग्रहिकत्वम् , स्वशास्त्रानियन्त्रितत्वाद् विवेकालोकस्य । यस्तु नाम्ना जैनोऽपि स्वकुलाचारेणैवागमपरीक्षां बाधते, तस्याभिग्राहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात् । तदुक्तं हरिभद्रसूरिभिः - "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः" ॥१॥ [लो.नि./गा. ३८ ] इति ।
गीतार्थनिश्रितानां माषतुषादिकल्पानां तु प्रज्ञापाटवाभावाद् विवेकरहितानामपि गुणवत्पारतन्त्र्यान्न दोष इति भावः । तच्च नास्त्यात्मेत्यादि षड्विकल्पैः षड्विधम् १।
अनाभिग्रहिकं प्राकृतजनानाम् , सर्वे देवा वन्द्या न निन्दनीया, एवं सर्वे गुरवः, सर्वे धर्मा इतीत्याद्यनेकविधम् २।
आभिनिवेशिकं जानतोऽपि यथास्थितं दुरभिनिवेशविप्लावितधियो गोष्ठामाहिलादेरिव ३। [अभिनिवेशेऽनाभोगात् प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दृष्टावपि स्याद् । अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात् । तथाचोक्तमुत्तराध्ययननिर्युक्तौ - "सम्मद्दिट्ठी जीवो, उवइटुं पवयणं तु सद्दहइ ।
सद्दहइ असब्भावं, अणभोगा गुरणिओगा वा" ॥१॥ [ उनि./गा.१६३] इति । तद्वारणाय दुरिति विशेषणम् , सम्यग्वक्तृवचनानिवर्तनीयत्वं तदर्थः । अनाभोगादिजनितो मुग्धश्राद्धादीनां वितथश्रद्धानरूपोऽभिनिवेशस्तु सम्यग्वक्तृवचननिवर्त्तनीय इति न दोषः ।
१. अथवा-P.L. || २. च-मु० C |
D:\new/d-1.pm5\3rd proof