SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६८] [धर्मसंग्रहः-द्वितीयोऽधिकारः "इक्षुक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं, सरस्वत्याऽपि पार्यते" ॥१॥[ ] इति । यदि च धर्मबीजस्याप्येवमनुभवैकगम्यत्वम् , का वार्ता तर्हि भवशतसहस्रदुर्लभस्य साक्षान्मोक्षफलस्य चारित्रैकप्राणस्य सम्यक्त्वस्य ? इति । शुद्धात्मपरिणतिस्वरूपे हि तत्र नातिरिक्तप्रमाणानां प्रवृत्तिः । उक्तं च शुद्धात्मस्वरूपमधिकृत्याचारसूत्रे - "सव्वे सरा णिअटुंति, तक्का जत्थ ण विज्जइ, मइ तत्थ ण गाहिआ'' [ आचा.५/६/ १७० ] इत्यादि । तदेतद् ज्ञानादिगुणसमुदायाद् भेदाभेदादिना विवेचयितुमशक्यमनुभवगम्यमेवेति स्थितम् । अत्र पद्ये - "न भिन्नं नाभिन्नं ह्युभयमपि नो नाप्यनुभयं, न वा शाब्दन्यायाद् भवति भजनाभाजनमपि । गुणासीनं लीनं निरवधिविधिव्यञ्जनपदे, यदेतत्सम्यक्त्वं तदनुकुरुते पानकरसम् ॥१॥[] न केनाप्याख्यातं न च परिचितं नाप्यनुमितं, न चार्थादापन्नं क्वचिदुपमितं नापि विबुधैः । विशुद्धं सम्यक्त्वं न च हृदि न नालिङ्गितमपि, स्फुरत्यन्तोतिर्निरुपधिसमाधौ समुदितम्" ॥२॥[ ] इत्यलं प्रसङ्गेन, प्रकृतमनुसरामः । निसर्गा-ऽधिगमयोरुभयोरप्येकमन्तरङ्गं कारणमाह - 'मिथ्यात्वपरिहाण्यैवे'ति मिथ्यात्वं जिनप्रणीततत्त्वविपरीतश्रद्धानलक्षणम् , तस्य परिहाण्यैव सर्वथा त्यागे त्रिविधं त्रिविधेन प्रत्याख्यानेनेतियावत् । आह च – "मिच्छत्तपडिक्कमणं, तिविहं तिविहेण नायव्वं" [आवश्यकनियुक्ति/गा.१२५१ ] ति । मिथ्यात्वं च लौकिक-लोकोत्तरभेदाद् द्विधा, एकैकमपि देवविषय-गुरुविषयभेदाद् द्विविधम् , तत्र लौकिकदेवगतं लौकिकदेवानां हरि-हर-ब्रह्मादीनाम् , प्रणामपूजादिना तद्भवनगमनादिना च तत्तद्देशप्रसिद्धमनेकविधं ज्ञेयम् १। लौकिकगुरुगतमपि लौकिकगुरूणां ब्राह्मण-तापसादीनां नमस्कृतिकरणं-तदग्रे १. पद्ये महोपाध्यायश्रीयशोविजयगणिकते-P.L. || २. ०ण्यैवमि०-मु० ॥ ३. L। प्रणामपूजादीनां (दिना)-मु० PC || D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy