________________
सम्यक्त्वभेदा: - श्लो० २२॥ ]
[ ६७
धर्मपदमात्रश्रवणजनितप्रीतिसहिता धर्मपदवाच्यविषयिणी रुचिर्धर्मरुचिः ।
आह च -
"जो अत्थिकायधम्मं, सुयधम्मं खलु चरित्तधम्मं च ।
सद्दहइ जिणाभिहिअं, सो धम्मरुइ त्ति णायव्वो" ॥१॥ [ प्र.सा./गा. ९६० ] ति । [न चैवं ग्रामधर्मादिपदवाच्यविषयिण्यपि रुचिस्तथा स्यादिति वाच्यम्, निरुपपदधर्मपदवाच्यत्वस्यैव ग्रहणात् । न चैवं चारित्रधर्मादिपदवाच्यविषयिण्यामव्याप्तिर्निरुपपदत्वस्य वास्तवधर्मातिप्रसञ्जकोपपदराहित्यस्य विवक्षणादिति दिक् ] १०।
शिष्यव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदनिर्देश:, तेन क्वचित् केषाञ्चिदन्तर्भावेऽपि न क्षतिः इत्युत्तराध्ययनवृत्तौ । यथा च नान्तर्भावस्तथोक्तमस्माभिः, तथापि नैतदन्यतरत्वं सम्यक्त्वलक्षणम्, रुचीनां तत्तद्विषयभेदेन परिगणनस्याशक्यत्वात् । रुचेः प्रतिरूपत्वेन वीतरागसम्यक्त्वेऽव्याप्तेश्च । “दसविहे सरागसम्मत्तदंसणे पण्णत्ते" [सू० ७५१ ] इति स्थानाङ्गसूत्रस्य स्वारस्येन सरागसम्यक्त्वस्यैव लक्ष्यत्वेन च रागस्याननुगत्त्वेन लक्ष्यभेदाल्लक्षणभेदोऽवश्यमनुसरणीय इति । वस्तुतो लक्षणमिह लिङ्गं व्यञ्जकमितियावत् । व्यञ्जकस्य च वह्निव्यञ्जकधूमालोकवदननुगमेऽपि न दोषः । अत एव च "नाणं च दंसणं चेव” [ नवतत्त्व प्र० गा० ५ ] इत्यादिना ज्ञान - दर्शन - चारित्र - तपः प्रभृतीनामननुगतानामेव जीवस्वरूपव्यञ्जकत्वरूपजीवलक्षणत्वम् उक्तलिंगं विनापि लैङ्गिकसद्भावेऽप्यविरोधश्च । यदाहुरध्यात्ममतपरीक्षायामुपाध्याय श्रीयशोविजयगणयः
·
D:\new/d-1.pm5\3rd proof
-
"जं च जीअलक्खणं तं, उवइट्टं तत्थ लक्खणं लिङ्गं ।
ते विणा सो जुज्ज, धूमेण विणा हुआसु व्व" ॥१॥ [ अ.प./गा. १५२ ] त्ति । एवं च रुच्यभावेऽपि वीतरागसम्यक्त्वसद्भावान्न क्षतिः । व्यङ्ग्यं त्वेकमनाविलसकलज्ञानादिगुणैकरसस्वभावं शुद्धात्मपरिणामरूपं परमार्थतोऽनाख्येयमनुभवगम्यमेव सम्यक्त्वम्। तदुक्तं धर्मबीजमधिकृत्योपदेशपदे -
—
"पायमणक्खेअमिणं, अणुहवगम्मं तु सुद्धभावाणं ।
भवखयकरं ति गरुअं, बुहेहि सयमेव विण्णेयं ॥१॥ [ उप.प./गा. २३२ ] ति । स्वयमिति निजोपयोगतः, इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च –
१. PLI ०प्रीतिसहताध(ऽऽ हिता धर्मपद० मु०सि० ।। २. ग्राम्य-PL |