________________
६४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः सङ्करेऽप्युपाध्योरसाङ्कर्येणादोषात् , कारके क्रियोपहितत्वमुपाधि:श्चयिके च ज्ञानादिमयत्वमिति । एवंविधं नैश्चयिकसम्यक्त्वमधिकृत्यैव प्रशमादीनां लक्षणत्वं सिद्धान्तोक्तं सङ्गच्छते । अन्यथा श्रेणिक-कृष्णादीनामपि तदसंभवेन लक्षणव्याघातसम्भवात् । तदुक्तं विंशिकायां श्रीहरिभद्राचार्यैः
"णिच्छयसम्मत्तं वाहिगिच्च सुत्तभणिअनिउणरूवं तु ।
एवंविहो णिओगो, होइ इमो हंत वण्णु त्ति" ॥१॥[सद्धर्मविं./गा.१७] अत्र वाकारो विषयविशेषापेक्षया प्रकारान्तरोपदर्शनार्थः । अथवा ज्ञानादिमय इत्यस्यायमर्थः -ज्ञाननये ज्ञानस्य दशाविशेष एव सम्यक्त्वम् , क्रियानये च चारित्ररूपम् , दर्शननये तु स्वतन्त्रं व्यवस्थितमेव इति । शुद्धात्मपरिणामग्राहिनिश्चयनये तु -
___ "आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः ।
__यत्तदात्मक एवैष, शरीरमधितिष्ठति" ॥१॥ [यो.शा./४/१] इति योगशास्त्रवचनादात्मैव निरुपाधिशुद्धस्वरूपप्रकाशात् ज्ञानरूपः, तथा श्रद्धानाद् दर्शनरूपः, स्वभावाचरणाच्चारित्ररूप इति शुद्धात्मबोधाचरणतृप्तिरेव निश्चयसम्यक्त्वमित्यलं प्रपञ्चेन ।
त्रिविधं यथा-क्षायिकम् , क्षायोपशमिकम् , औपशमिकं चेति । वेदकस्य क्षायोपशमिकेऽन्तर्भावात् , सासादनस्याविवक्षितत्वात् । अर्थस्तु प्रागुक्तः । अथवा कारकं रोचकं दीपकं चेति, तत्र कारकं सूत्राज्ञाशुद्धा क्रियैव, तस्या एव परगतसम्यक्त्वोत्पादकत्वेन सम्यक्त्वरूपत्वात् , तदवच्छिन्नं वा सम्यक्त्वं कारकसम्यक्त्वम् , एतच्च विशुद्धचारित्राणामेव १। रोचयति सम्यगनुष्ठानप्रवृत्तिम् न तु कारयतीति रोचकम् , अविरतसम्यग्दृशां कृष्ण-श्रेणिकादीनाम् २। दीपकं व्यञ्जकमित्यनर्थान्तरम् , एतच्च यः स्वयं मिथ्यादृष्टिरपि परेभ्यो जीवाऽजीवादिपदार्थान् यथावस्थितान् व्यनक्ति, तस्याङ्गारमईकादेर्द्रष्टव्यम् ३।
चतुर्विधं क्षायिकादित्रयेऽधिकस्य सासादनस्य परिगणनात् वेदकस्य च परित्यागात् ।। वेदकयुतं तदेव पञ्चविधम् ५।।
दशविधं चोत्तराध्ययनानुसारेणोपदर्शाते-निसर्गरुचिः १, उपदेशरुचिः २, आज्ञारुचिः, ३, सूत्ररुचिः ४, बीजरुचिः ५, अभिगमरुचिः ६, विस्ताररुचिः ७,
१. P.L. । प्रागुक्तम्(क्तः)-मु० सि०॥
D:\new/d-1.pm5\3rd proof