________________
सम्यक्त्वभेदा:-श्लो० २२॥]
[६५ क्रियारुचिः ८. सझेपरुचिः ९, धर्मरुचिः १० इति । तत्र भूतार्थेन सहसंमत्या जीवाऽजीवादिनवपदार्थविषयिणी रुचिनिसर्गरुचिः । भूतार्थेनेत्यस्य भूतार्थत्वेनेत्यर्थो, भावप्रधाननिर्देशात् , सद्भूतार्था अमी इत्येवंरूपेणेतियावत् , वस्तुतो भूतार्थेनेत्यस्य शुद्धनयेनेत्यर्थः ।
"ववहारोऽभूअत्थो, भूअत्थो देसिओ असुद्धणउ''[ ]त्ति वचनात् , तेन व्यवहारमात्ररुचेविच्छेदः । सहसंमत्येत्यस्य सहात्मना सङ्गता मतिः [सह]संमतिस्तयोपदेशनिरपेक्षक्षयोपशमेणेत्यर्थः १॥
परोपदेशप्रयुक्तं जीवाऽजीवादिपदार्थविषयिश्रद्धानम् उपदेशरुचिः । परस्तीर्थकरस्तद्वचनानुसारी छद्मस्थो वा, केवलज्ञानमूलकत्वप्रयुक्तोपदेशरुचिस्तज्जन्यबोधरुचिर्वेति निष्कर्षः । तदुक्तं सूत्रकृते -
"लोगं अयाणित्तिह केवलेणं, कहंति जे धम्ममयाणमाणा। णासंति अप्पाण परं च णट्ठा, संसारघोरंमि अणोरपारे ॥१॥ लोगं वियाणित्तिह केवलेणं, पुन्नेण नाणेण सुमाहिजुत्ता। धम्मं समत्तं च कहंति जे उ, तारंति अप्पाण परंच तिण्ण त्ति"॥२॥
[सूत्रकृताङ्गश्रुतस्कन्ध २अ.६/७१७-८] उपदेशे तज्जन्यबोधे च रुचिरिह संशयव्यावर्त्तकतावच्छेदको धर्मविशेषः २।
रागद्वेषरहितस्य पुंस आज्ञयैव धर्मानुष्ठानगता रुचिराज्ञारुचिः, राहित्यं च देशतः सर्वतश्च, तत्र देशतो दोषरहितानामाचार्यादीनामाज्ञया धर्मानुष्ठाने रुचिर्माषतुषादीनां सम्यक्त्वसम्पादिका तत्तदनुष्ठाने । तदुक्तं पञ्चाशके -
"गुरुपारतंतनाणं सद्दहणं एयसंगयं चेव ।
एत्तो उ चरित्तीणं, मासतुसाईण णिद्दिटुं" ॥१॥ [ पञ्चा.११/७] ति । सर्वदोषरहिताज्ञामूलत्वं च तत्राप्यप्रामाण्यशङ्कानिवर्त्तकत्वेन सर्वत्र रुचिप्रयोजकमितिविशेष: ३।
सूत्राध्ययनाभ्यासजनितविशिष्टज्ञानेन जीवाजीवादिपदार्थविषयिणी रुचिः सूत्ररुचिर्गोविन्दाचार्यस्येव । जायते च पुनः पुनः स्मरणाद् दृढतर: संस्कार इव पुनः पुनरध्ययनाद् दृढतरं ज्ञानं निःसंशयमिति न किमप्यनुपपन्नम् ।।
१. मतिः संमति० L.P.C. ॥ २. तिण्णा इति-मु० ॥ ३. (तत्तदनुष्ठाने) मु० ॥
D:\new/d-1.pm5\3rd proof