________________
सम्यक्त्वभेदा: - श्लो० २२॥ ]
[ ६३
यस्य त्वनेकान्तत्त्वे भगवत्प्ररूपिते सम्यगपरिच्छिद्यमानेऽपि भगवत्प्ररूपितत्वेन तत्र रुचिर्विपरीताभिनिवेशश्च न भवति गीतार्थप्रज्ञापनीयत्वादिगुणयोगात् । तस्यानाभोगगुरुपारतन्त्र्याभ्यामन्यथा सम्भावनेऽपि अन्तस्तत्त्वस्य शुद्धत्वाद् द्रव्यसम्यक्त्वमविरुद्धम् । तथा च भाद्रबाहवं वच उत्तराध्ययननिर्युक्तौ -
"सम्मद्दिट्ठी जीवो, उवइट्टं पवयणं तु सद्दहइ ।
सद्दहइ असब्भावं, अणभोगा गुरुनिओगा व " ॥१॥ [ उ.नि./गा.१६३ ] त्ति ।
नन्वत्रद्रव्य-भावयोरेकतरस्यानिर्द्धारणाद् द्रव्यमेवेति कुतः ? सामान्यवचनस्य विशेषपरतायां प्रमाणस्य मृग्यत्वादिति चेत्, सत्यम्, विस्ताररुचेर्भावसम्यक्त्वस्याधिकृत(त्व)स्यैव तद्द्रव्यतायाम् प्रमाणत्वात्, द्रव्य-भावयोरन्योन्यानुविद्धत्वनये तु कथञ्चिद् भावत्वमप्युच्यमानं न विरोधायेत्युक्तमन्यत्र । एवं द्रव्य - भावाभ्यां द्वैविध्यं नयविशेषेण विचित्रं भावनीयम् । अथवा निश्चय-व्यवहाराभ्यां द्विविधम् । तल्लक्षणमिदम् - "निच्छयओ सम्मत्तं, नाणाइमयप्पसुद्धपरिणामो ।
,
इअरं पुण तुह समए भणिअं सम्मत्तहेऊहिं ॥ १ ॥ [ सम्य. प्र.गा. ११ ] ति । ज्ञानादिमयशुभपरिणामो निश्चयसम्यक्त्वम्, ज्ञान - श्रद्धान- चरणैः सप्तषष्टिभेदशीलनं च व्यवहारसम्यक्त्वमित्येतदर्थः । ननु ज्ञानादिमय इत्यस्य ज्ञान - दर्शन - चारित्रसंलुलित इत्यर्थः, तथाचैतद्भावचारित्रमेव प्राप्तम्, कथं नैश्चयिकं सम्यक्त्वमिति चेत् ?, सत्यम्, भावचारित्रस्यैव निश्चयसम्यक्त्वरूपत्वात्, मिथ्याऽऽचारनिवृत्तिरूपकार्यस्य तत एव भावात्, कार्यानुपहितस्य कारणस्य निश्चयनयेनानभ्युपगमात् । नन्वेवं तुर्यगुणस्थानादिवर्त्तिनां श्रेणिकादीनामपि तन्न स्यादिति चेत् ?, न स्यादेव, कः किमाह - अप्रमत्तसंयतानामेव तद्व्यवस्थितेः । तदुक्तमाचाराङ्गे -
"जं सम्मं ति पासह, तं मोणं ति पासह, जं मोणं ति पासह, तं सम्मं ति पासह । ण इमं सक्वं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं । मुणी मोणं समादाय धुणे कम्म सरीरगं । पंतलूहं च सेवंति, धीरा सम्मत्तदंसिणो" । [ आचा.२/५/३. सू.१२५ ]त्ति ।
नन्वेवमपि कारक-निश्चयसम्यक्त्वयोर्भेदो न स्यात्, क्रियोपहितस्यैव कारकत्वात्, क्रियायाश्च चारित्ररूपत्वात्, ज्ञानादिमयपरिणामस्यापि तथात्वादिति चेत् ? न, उपधेय१. वा इति - मु० ॥ २. ० स्याधिकृतत्वस्यैव - L. P. C. I
D:\new/d-1.pm5\3rd proof