SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६२] [धर्मसंग्रहः-द्वितीयोऽधिकारः एगविहं सम्मरुई, निसग्गहिगमेहि भवे तयं दुविहं । तिविहं तं खइआई, अहवा वि हु कारगाईअं ॥२॥ [प्र.सा./गा.९४३] खइगाइ सासणजुअं, चउहा वेअगजुअंतु पंचविहं । तं मिच्छचरमपुग्गलवेअणओ दसविहं एयं ॥३॥ [प्र.सा./गा.९४७] निसग्गुवएसरुई, आणरुइ सुत्तबीअरुइमेव । अभिगमवित्थाररुई, किरिआसंखेवधम्मरुई ॥४॥ [प्र.सा.गा.९५०, सम्बोधप्र. सम्य./गा. ८९] आसां भावार्थः -तत्र श्रद्धानरूपत्वाविशेषादेकविधं सम्यक्त्वम्। निसर्गाधिगमभेदाद् द्विविधम् , निसर्गाऽधिगमस्वरूपं तु प्रागुक्तम् , आभ्यामुत्पत्तिप्रकाराभ्यां सम्यक्त्वं द्विधा भिद्यत इत्यर्थः । अथवा द्रव्यभावभेदाद् द्विविधम् , तत्र जिनोक्ततत्त्वेषु सामान्येन रुचिर्द्रव्यसम्यक्त्वम् , नयनिक्षेपप्रमाणादिभिरधिगमोपायो जीवाजीवादिसकलतत्त्वपरिशोधनरूपज्ञानात्मकं भावसम्यक्त्वम् , परीक्षाजन्यमतिज्ञानतृतीयांशस्वरूपस्यैव तस्य शास्त्रे व्यवस्थापितत्वात् । तदाहुः श्रीसिद्धसेनदिवाकरपादाः सम्मतौ - "एवं जिणपण्णत्ते, सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे, सणसद्दो हवइ वच्चो" ॥१॥[सं.प्र.का.२/३२] ति । यच्च श्रीहरिभद्रसूरिभिः - "जिणवयणमेव तत्तं, इत्थ रुई होई दव्वसम्मत्तं । जह भावणाणसद्धापरिसुद्धं भावसंमत्तं" ॥१॥ [पञ्च./गा.१०६३] ति । पञ्चवस्तके प्रति(त्य)पादि तस्याप्ययमेवार्थः । जिनवचनमेव तत्त्वं नान्यदिति सामान्यरुचेर्द्रव्यसम्यक्त्वरूपताया नयनिक्षेपप्रमाणपरिष्कृतविस्तारुरुचेश्च भावसम्यक्त्वरूपतायास्तत्र परिस्फुटत्वात् । तत्र द्रव्यशब्दार्थः कारणता, भावशब्दार्थश्च कार्यापत्तिरिति भावनीयम् । येषां त्वेकान्तेन सामान्यरुचिरोघतोऽप्यनेकान्तास्पर्शश्च, तेषां द्रव्यसम्यक्त्वमित्यत्र द्रव्यपदार्थोऽप्राधान्यमेव । जैनमपि समयमवलम्ब्यैकान्ते प्रविशतां मिथ्यात्वस्यावर्जनीयत्वात् । तदाहुः श्रीसिद्धसेनदिवाकरपादाः - "छप्पिअ जीवणिकाए, सद्दहमाणो ण सद्दहे भावा । हंदि अपज्जवेसुं, सद्दहणा होइ अविभत्ता" ॥१॥[सं.प्र.का.३/२८ ] त्ति । १. तथा श्र० मु० ॥ २. यच्च-मु० नास्ति, L.P.C. अस्ति ।। ३. प्रतिपादितस्या० मु० L.P.C. || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy