SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वस्वरूपम्-श्लो० २२॥] [६१ बीअगुणे सासाणं, तुरिआइसु अट्ठिगारचउचउसु । उवसमगखइअवेअगखाओवसमा कमा हुंति ॥५॥[सम्य.प्र./गा. २३] संमत्तंमि उ लद्धे, पलिअपुहत्तेण सावओ हुज्जा । चरणोवसमखयाणं, सागर संखंतरा हुंति ॥६॥ [विशेषा.भा./गा. ११२२] इअ (अप्प )परिवडिए सम्मे, सुरमणुए इगभवे वि सव्वाणि । इगसेढिवज्जिआई, सिवं च सत्तट्ठभवमज्झे ॥७॥[ ] "क्षायिकसम्यग्दृष्टिस्तु तृतीये चतुर्थे तस्मिन् भवे वा सिद्ध्यति । उक्तं च पञ्चसङ्ग्रहादौ "तइअचउत्थे तंमि व, भवंमि सिझंति दंसणे खीणे। जं देवनिरयसंखाउ, चरमदेहेसु ते हुंति ॥८॥[पं.सं./गा.७७८ ] व्याख्या -बद्धायुः क्षीणसप्तको यदि देवगति नरकगतिं वा याति, तदा तद्भवान्तरितस्तृतीयभवे सिद्धयति । अथ तिर्यक्षु नृषु वोत्पद्यते । सोऽवश्यमसङ्ख्येयवर्षायुष्केष्वेव, न तु सङ्ख्येयवर्षायुष्केषु तद्भवानन्तरं च देवभवे, ततो नृभवे सिद्धयतीति चतुर्थभवे मोक्षः । अबद्धायुश्च तस्मिन्नेव भवे क्षपकश्रेणिं संपूर्णीकृत्य सिद्ध्यतीत्यर्थः" ।। एकं जीवं नानाजीवान वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कष्टतश्चान्तर्महर्त्तमेव. क्षयोपशमरूपा तल्लब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहूर्तमुत्कृष्टा तु ६६सागराणि नृभवाधिकानि तत ऊर्ध्वं सम्यक्त्वाप्रच्युतः सिद्धयत्येव, नानाजीवानां तु सर्वकालः । अन्तरं च जघन्यतोऽन्तर्मुहूर्तम् , कस्यचित् सम्यक्त्वत्यागे सति पुनस्तदावरणक्षयोपशमादन्तमुहूर्त्तमात्रेणैव तत्प्रतिपत्तेः । उत्कृष्टतस्त्वाशातनाप्रचुरस्यापार्द्धपुद्गलपरावर्त्तः । उक्तं च - "तित्थयरं पवयणसुअं, आयरिअंगणहरं महदीयं । आसायंतो बहुसो, अणंतसंसारिओ होइ" ॥१॥ [उ.प./गा.४२३] नानाजीवानपेक्ष्य चान्तराऽभाव इत्याधुक्तमावश्यकवृत्ताविति शेषविचारो विशेषार्थिभिस्तत एवावधार्य इत्यलं विस्तरेण । शास्त्रान्तरे चैकविधादिक्रमेण सम्यक्त्वभेदा प्रदर्शिताः । तथाहि - "एगविह दुविह तिविहं, चउहा पंचविह दसविहं सम्मं । दव्वाइ कारयाई, उवसमभेएहिं वा सम्मं ॥१॥ [प्र.सा./गा.९४२] १. इय अपरि० । C.P.L. अप्परि० इति श्राद्धप्रतिक्रमणवृत्तौ प० २६ ॥ २. ०त्थं मु० P मूल CI ०त्थे-P संशोधित. L पञ्चसङ्ग्रहे च ॥ ३. ०र्त-P.L. I ०तः-इति श्राद्धप्रतिक्रमणवृत्तौ प० २७ ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy