________________
(४२)
भुवनदीपकः। लग्नं स्वामियुतं दृष्टं वा तादृशं कार्य फलस्य पुष्पमित्यर्थः तथा, यादृशो लग्ननवांशकस्तादृशं तत्तुल्यं फलं विचार तथा लग्नस्य यादृशो भावः क्रूराक्रूरचरस्थिरास्तोदितादि तादृशः स्वादुरिति स्वबुद्धया स्वयमेवाप्यूह्यमिति । अथात्रै लग्नाधिकारे प्रच्छकः सत्यतया प्रष्टुमागत इति ज्ञानार्थ शास्त्रा न्तराणां श्लोकत्रयेण विशेष दर्शयति-' लग्ने चन्द्रशन कुंभे रविः सौम्यो विरश्मिकः । कौटिल्येनागतः प्रश्ने विज्ञा यैवं. ततो वदेत् ॥ १ ॥' अस्यार्थः-पृच्छालग्ने यदि चन्द्र शनी स्यातां, तथा कुंभे रविः, बुधोऽस्तमितश्च तदा ज्ञेयमर्य प्रच्छक कपटतया आगतोऽस्ति । अन्यथा सत्यतयेति ज्ञात्वाऽ विचारणीयम् । विचारणीयमेवाह-" रखौ सार्द्धत्रयो भागाः पंच चन्द्रे गुरौ त्रयम् । द्वौ शुक्र द्वौ बुधे चैव लग्नविंशोपकाः स्मृताः ॥ २ ॥ मंदे भौमे तथा राही प्रत्येकं सार्द्धमिष्यते । दुर्बलं बलवल्लग्नं विज्ञेयं ज्ञानवेदिभिः ॥३॥" अनयोरर्थः-रवौ लग्नस्थे उच्चस्थे वा सार्द्धत्रिभागविंशोपकं लग्नं बलवद् भवति । खौ नीचस्थे पश्यति सार्द्धत्रयो भागा लग्नमवलमिति सर्वग्रहानुसारेण बलाबलभावो विचार्यः । एवं चन्द्रे लग्नस्थे पश्यति वा पञ्च विंशोपकाः एवं गुरौ लग्ने त्रयो विंशोपकाः तथा शुक्रे बुधे च लग्नस्थे बलवति लग्नं पश्यति सति द्वौ द्वी
"Aho Shrut Gyanam"