________________
(२८) भुवनदीपकः । लोहा, राहु हो तो हड्डी आदि कहना चाहिये । धातुज्ञान निश्चय होनेके पोछे इसीप्रकार विशेष धातुज्ञान कर लेना ॥ ३६ ॥ ३७॥ शुके चन्द्रे जलाधारो देवतावसतिगुरौ ॥ रखौ चतुष्पदस्थानमिष्टकानिचयो बुधे ॥३८॥ दग्धस्थानं कुजे प्रोक्तं शनौ राहौ च बाह्यभूः॥ अमीभिर्हिबुकस्थाने नष्टभूमि विलोकयेत् ॥३९॥ - सं० टी०-अथ ग्रहाणां स्थानविशेषमाह-शुक्र इति । शुक्रे चंद्रे वा लग्ने स्थिते पश्यति वा जलाशयः जलस्थानं ज्ञेयम् । गुरौ देवालयस्थानं च । रखौ च चतुष्पदस्थानम् । बुधे च इष्टकानिचयः, पाषाणादिस्थानमिष्टकासमूहो वाच्यः ॥ ३८॥ कुजे भौमे दग्धस्थानम्, अग्निदग्धमिति शेषः, तत्प्रोक्तं कथितम् । शनौ राहौ च बाह्यभूः । उद्यानपर्वतादिः, अथवा बहिर्भूः मलस्थानमिति शेषः । अमीभिरिति । अमीभिः सूर्यादिग्रहैः कृत्वा हिबुकस्थाने चतुर्थस्थाने निधनादिपृच्छायाम् ‘क गतः' इति धनादिप्रश्ने यदि चतुर्थस्थाने लग्नपतिः स्वामी वाऽन्यः कोऽपि ग्रहो भवति पश्यति वा तदा तदनुसारेण प्रागुक्तग्रहस्थानतया विचार्य नष्टवस्तुस्थानं वक्तव्यमिति भावः ॥ ३९॥
"Aho Shrut Gyanam"