________________
संस्कृतटीका-भाषाटीकासमेतः। (२७) भौमे वपु शनौ लोहं राहावस्थीनि कीर्तयेत् ॥ धातोर्विनिश्चये ज्ञाते विशेषोऽस्मादुदाहृतः॥३७॥
सं० टी-अथ धातुचिन्ताविशेषमाह-शुक्र इति । शुक्रे वा चन्द्रे लग्नस्थिते पश्याति वा तदा धातूनां मध्ये रौप्यं वाच्यम् । बुधे च स्वर्ण स्यादित्युदाहृतं कथितम् । गुरौ तथा स्थिते च रत्नजडितं स्वर्णम् । सूर्ये मौक्तिकं वा जडितं भूषणं चोच्यते कथ्यते ॥ ३६॥ भौम इति । भौमे लग्नस्थे वा लग्नं पश्यति तदा धातुमध्ये पु सीसकं वाच्यम् । शनौ च लोहादि । आदिपदेन पाषाणसंग्रहः । राहौ च अस्थीनि हस्तिदन्तादि कीर्तयेत् कथयेत् पण्डित इति शेषः । एवं लग्ने ग्रहदर्शनाद्धातूनां विशिष्ट निश्चये जाते अस्मात्कथितप्रकारादातोविशेष उदाहृतः कथितः । ज्योतिर्विद्भिरिति तमेव विशेषस्थानं कथयति ॥ ३७॥
अर्थ-अब पूर्वरीतिसे यदि धातुचिंता आवे तो कौन धातु है, इसके जाननेके लिये ग्रहोंके द्वारा धातुज्ञान लिखते हैं-शुक्र या चद्रमा लग्नमें स्थित हों या लग्नको देखते हों तो रौप्य ( चांदी) जानना, बुध हो तो सोना कहा है, बृहस्पति हो तो रत्नसे जडा हुआ सोना, सूर्य हो तो मोती, मङ्गल हो तो सीसा, शनि हो तो
"Aho Shrut Gyanam"