________________
( २६ )
भुवनदीपकः ।
सं० टी० - अथ ग्रहाणामधिकारविशेषमाह - अवनीश इति । अवनिः पृथिवी तदीशो राजा इव सूर्यः । रोहिणीमियश्चन्द्रः सोsपि तपस्वीति । अत्रिजत्वात्तदुपवृत्तिः । क्षितिपुत्रो भौमः स्वर्णकारः वृत्तिविशेषः । बुधो ब्राह्मणः ॥ ३४ ॥ बृहस्पतिर्गुरुः वणिकपुत्र इति शेषः । कविः शुको वैश्यः अतिधनीति शेषः | सूर्यनंदनः शनिः दासः अनुचर इति शेषः । सैंहिकेयो राहुः निषादश्चण्डालः हिंसक इति शेषः । सर्वेष्वपि शुभाशुभकार्येषु कथितः इति । जीवचिन्तायां वाच्यमिति ॥ ३५ ॥
अर्थ- मनुष्य के अधिकार जाननेके लिये ग्रहोंका अधिकार कहते हैंसूर्य राजा है, चन्द्रमा तपस्वी है, मंगल सुनार है, बुध ब्राह्मण है,. बृहस्पति वणिक् ( बानियां ) है, शुक्र वैश्य है, शनि दास है और राहु चाण्डाल है, यह विचार सब कार्य में सम्पत है । आशय यह है कि, जन्मपत्रमें या प्रश्नसमय में जो ग्रह अधिक बलत्राला हो और लग्नको देखे या युक्त हो, उस ग्रहकी आजीविका उस मनुष्यको कहनी चाहिये, यह जीवचिंता हुई || ३४ ॥ ३५ ॥
शुक्रे चंद्रे भवेद्रौप्यं बुधे स्वर्णमुदाहृतम् ॥ गुरौ रत्नयुतं हेम सूर्ये मौक्तिकमुच्यते ॥ ३६ ॥
"Aho Shrut Gyanam"