________________
( ११० )
भुवनदीपकः । मूर्ती छिद्रे द्वादशेऽर्को व्यये कर्मणि भूसुतः ॥ षष्ठत्याद्याष्टमश्चंद्रो व्ययास्ते शेषखेचराः १५८॥ क्षेत्राधिपाकाशदेवीशाकिन्याद्याश्च देवताः ॥ देवदोषां बुदेवात्मव्यंतरामिहरादयः ॥ १५९ ॥
सं० टी० - अथ दोषज्ञानद्वारमाह-मूर्ती लग्ने छिद्रेऽष्टमस्थाने द्वादशे वाऽर्कः सूर्यो भवति, तथा द्वादशे कर्मणि दशमे स्थाने भूसुतो मंगलो भवति, तथा षष्ठे, अंत्ये द्वादशे, आद्ये मूर्ती, अष्टमे च एतेषु स्थानेषु यदि चन्द्रो भवति, तथा व्यये द्वादशे अस्ते सप्तमे शेषखेचरा अपरे ग्रहा भवंति । किं तत् इत्याहक्षेत्राधिपेति । यदि १ । ८ । १२ स्थाने रविर्भवति तदा क्षेत्रपालस्य दोषः । यदि १ । ६ । ८ । १२ चन्द्रो भवति तदाऽऽकाशदेवतादोषः । यदि १० | १२ मंगलो भवति तदा शाकिनीदोषः । यदि १२ । ७ बुधो भवति तदा वनदेवतादोषः । यदि १२ । ७ गुरुर्भवति तदा देवदोषः । यदि १२ १७ शुक्रो भवति तदा जलदेवतादोषः । यदि १२। ७ शनिभवति तदा आत्मदोषो वृष्ट्यादि । यदि १२ । ७ राहुर्भवति तदा तांतिकादिस्वकीयगृह देवतादिदोषो वाच्यः । पाठांतरेनाह - " वह ३ के ९ द्वादशे १२ षष्ठे ६ लग्नात्पापग्रहो
"Aho Shrut Gyanam"