________________
संस्कृतटीका - भाषाटीकासमेतः । ( १०९)
अर्थ - इसी रीति से बारहों भावोंमें केवल द्रेष्काणसे फलादेश निश्चयसे पण्डित कहे ॥ १५५ ॥
प्रश्नकाले सौम्यवर्गो यदि लग्नेऽधिको भवेत् ॥ ग्रहभावानपेक्षेण तदाऽऽख्येयं शुभं फलम् १५६ ॥
सं० टी० - यस्मिन्प्रश्नकाले सौम्यवर्गो लग्नेऽधिको भवेत् । कोऽर्थः ? यस्मिलग्ने सौम्यग्रहाणां द्रेष्काणनवांशादयो वर्गा एक बलवत्त्वेनाधिकभावं भजते इत्यर्थः । तदा शुभं फलमाख्येयं कथनीयमित्यर्थः ॥ १५६ ॥
अर्थ-यदि प्रश्नकालिक लग्न में शुभग्रहों के वर्ग अधिक हों तो ग्रह और भावादि विचार विनाही शुभ फल जानना चाहिये ॥ १५६ ॥
प्रश्नकाले क्रूरवर्गो लग्ने यद्यधिको भवेत् ॥ अशुभं फलमाख्येयं ग्रहापेक्षां विना तदा ॥ १५७ ॥
सं० टी० - यस्मिन्प्रने क्रूरवर्गोऽधिको भवेत् क्रूरा एव लग्ने बहवो भवतीत्यर्थः । तदापि ग्रहभावाद्यपेक्षां विनाऽप्यशुभमेव फलं वक्तव्यमिति ॥ १५७ ॥ इति द्रेष्काणादिद्वारं त्रयस्त्रिंशम् ॥ ३३ ॥
अर्थ-यदि प्रश्नकालिक लग्नमें पापग्रहोंके वर्ग अधिक हों तो ग्रहादि विचार विनाही अशुभ फल कहना चाहिये ॥ १५७ ॥ इति द्रेष्काणादिद्वारम् ॥ ३३ ॥
"Aho Shrut Gyanam"