________________
( १०० )
भुवनदीपकः । नेक्षते लमपो लग्नं मृतिपो नेक्षते मृतिम् ॥ यानपात्रस्य वक्तव्यं निश्चितं बुडनं तदा ॥ १४२॥
सं० टी० - अथ नौबुडनमाह - यस्मिँल्लग्ने लग्नाधिपतिः लग्नं नेक्षते न पश्यति तथा मृत्युपोऽष्टमस्थानपतिर्मृत्युम् अष्टमस्थानं न पश्यति तदा वक्तव्यं निश्चयेन पोतस्य बुडनमेवेोते । अत्र व्यतिरेकश्लोकः । " लग्नं पश्यति लग्नेश शिछद्रं मृत्युपतियदि । बुडति तदा पोतो लाभो भवति निश्चितम् " ॥ १४२ ॥
अर्थ - नौका डूबगई या आती है ऐसे प्रश्न में प्रश्नलग्नका स्वामी प्रश्नलग्नको नहीं देखता हो और प्रश्नलग्न से आठवें भावका स्वामी आठवें भावको नहीं देखता हो तो निश्चय नौका डूब गई ऐसा कहना चाहिये ॥ १४२ ॥
लग्नपाष्टमस्थानाधिपतिर्वा भवेद्यदि ॥ सप्तमे कथयत्यंतर्जले वापनिकं तदा || १४३ ॥
सं० टी०-अथ जलवापनिकामाह - प्रश्नसमये लग्नपोऽष्टमस्थानपतिर्वा यदि सप्तमे स्थाने भवेत्तदा वक्तव्यं जलमध्ये वस्तुवापनिचैव भविष्यति ॥ १४३ ॥
"Aho Shrut Gyanam"