________________
पुरनिवेशो दशमोऽध्यायः । दृष्टा दृष्वोपभोगार्हान् सरिगिरिजलाशयान् । पक्षद्वाराणि कुर्वीत स्वेच्छया तत्र तत्र च ।। ५१ ॥ जलभ्रमान् पुरे कुर्यान्छिलादारुतिरोहितान् । द्विकरान् करमानान् वा साम्भसोऽस्मिन् प्रदक्षिणान् ।। ५२ ॥ छिन्नकर्ण विकर्ण च वनं मूचीमुखं तथा । वर्तुलं व्यजनाकारं चापाकृतिधरं च यत् !! ५३ ॥ शकटद्विसमं यच्च विस्ताराद द्विगुणायतम् । विदिक्स्थं सर्पचक्रं च तत् पुरं निन्दितं भवेत् ॥ ५४ ॥ छिन्नकणे वसल्लोकः पुरे तस्करतो भयम् । व्याधिभ्यो वापरेभ्यो वा प्रामोतीति विनिर्दिशेत् ॥ ५५ ॥ विद्विष्टस्वामिता सर्वलोकमहीनपत्यता । जायते स्वल्पमायुष्यं विकणपुरवासिनाम् ।। ५६ ॥ स्त्रीजयं विषरोगांश्च भेदांश्च विविधांग्नथा। जनो वसन्नवाप्नोति वज्राकृतिधरे पुरे ।। ५७ ।। वजन्ति प्राणिनो नाशं क्षुद्व्याधिपरिपीडिताः । निवसन्तः सदा सूचीमुखाकारघरे पुरे ।। ५८ ।। स्वामिना सह हीयन्ते सर्वतः सञ्चयोज्झिताः । स्वल्पायुषश्च जायन्ते जना वृत्तपुराश्रयाः ॥ ५९ ।। असत्यवादिनः स्वल्पायुपः पवनपीडिताः । जनाः स्युश्चलचित्ताश्च नगरे व्यजनाकृती ॥ ६० ॥ दुश्चरित्राङ्गनायुक्तस्तथा वहुनपुंसकः ।। चापाकारे पुरे लोको निवसन् भवति ध्रुवम् ॥ ६१ ॥ रोगशोकानलस्तेनभयं तत्र प्रजायते । शकटद्विसमाकारं पुरं वद विनिवेश्यते ।। ६२ ।। आरम्भासिद्धिदं विप्रभयदं जातिभेदकत् । पौराणां स्वामिनश्च स्याद् गजवाजिक्षयावहम् ।। ६३॥ .. - 1. 'विस्तराद् द्विगुणायतः ।' (?) क. पाटः ।
"Aho Shrut Gyanam"