SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पुरनिवेशो दशमोऽध्यायः । ४१ वप्रो भागगं मध्यं स्थूलोपलंशिलाचितम् । कुर्यात् प्राकारमुद्दामं यद्वा पक्वेष्टकामयम् ।। २५ ॥ ज्यायान् करैदशभिर्दशभिर्मध्यमः स्थितः । . कनीयानष्टभिर्हस्तैर्विस्तारैः स्यात् विधेत्यसौ ॥ २६ ॥ उच्छ्रायः सप्तदशभिः करैायान् प्रशस्यते । मध्यमः पञ्चदशभित्रयोदशभिरन्तिमः ।। २७ ॥ ऊर्ध्वं न सप्तदशकान त्रयोदशकादधः । प्राकारोच्छ्यमिच्छन्ति नापि युग्मकरोन्मितम् ।। २८ ।। हस्तेहस्तेऽगुलद्वन्द्वमायतः सम्यगुच्छ्यात् । यस्य वा द्वादशकरा मूले भवति विस्तृतिः ॥ २९ ॥ चतु(रसोईस्तो)च्छ्रितिस्तस्य शिरः स्याद् दशविस्तृतम् । हस्तांचं कपिशीर्ष स्याद् द्विहस्ता काण्डवारिणी ॥ ३० ॥ कार्याः कर्णाश्रितारकर्णान्तस्यैश्च संयुताः । माकारेऽट्टालकास्तस्मिन् दिक्षुदिक्षु चतुर्दिशम् ।। ३१ ।। द्विभौमांश्चरिकोर्ध्वं च प्राकारोच्छ्रायविस्तृतीन् । तदर्थे निगेमान् कुयोत् ससालाहालकानथ ॥ ३२ ।। शतं शतं स्याद्धस्तानां मिथश्वाट्टालकान्तरम् ।। इत्थं पुरमगम्यं स्यात् पत्त्यश्वरथदन्तिनाम् ॥ ३३ ॥ चरिको संचरद्वारा सुखारोहां सवेदिकाम् । ससोपानां सनियूहां कुर्यात् सकपिशीर्षकाम् ॥ ३४ ॥ राजमार्गमहारथ्यासंश्रितानि चतुर्दिशम् । त्रीणि त्रीणि विधेयानि पुरे द्वाराणि तद्विदा ॥ ३५ ॥ राजमार्गमहाद्वारचतुष्कं विस्तरान्नव । अष्टौ सप्त करानोा द्विगुणं त्रिकरोज्झितम् (?) ॥ ३६ ।। महारथ्याश्रयं द्वारं तत् षट्पञ्चचतुष्करम् । उच्छ्रयात् सार्धसाधैंकहस्तोनं विस्तरेण तत् ।। ३७॥ १. 'ज्येष्ठः क' क. पाटः । २. रात् स्यात् ,' ३. 'हस्ता', ४. 'करोष्टितम् ' ख. ग, पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy