________________
पुरनिवेशो दशमोऽध्यायः । अथ पुरनिवेशो दशमोऽध्यायः ।
पुरस्य त्रिविधस्यापि प्रमाणमथ कथ्यते । प्राकारपरिखाट्टालद्वाररथ्याध्वभिः सह ।। १ ॥ ज्येष्ठं तत्र चतुश्चापसहस्रं पुरमिष्यते । मध्यं द्वाभ्यां सहस्राभ्यामेऊन व्यासतोऽधमम् ॥ २॥ साष्टमांशं सपादं वा साध वा व्यासमायतम् । कुर्यादेककमायामं चतुर(सी?श्री कृतं शुभम् ।। ३॥ चतुःषष्टिपदाख्येन पुरं सर्व प्रकल्पयेत् । द्विरष्टकोष्ठं तत् कुर्यात् षट्पथं नवचत्वरम् ।। ४ ॥ चतुरश्रीकृते क्षेत्रे प्रागुदीच्यन्तमागताः। चतुभोगान्तरा वंशाः कायोस्तस्य त्रयस्त्रयः ।। ५ ।। वंशपट्कविभक्तेऽस्मिन् पदषोडशकान्विते । राजमागेः शुभः कार्यो मध्यम वंशमाश्रितः ॥ ६ ॥ कार्यों ज्यायसि (च) ज्यायांश्चतुर्विंशतिकः करैः । विंशत्या मध्यमे मध्योऽधमे पोडशकोऽधमः ॥ ७ ॥ वलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च ।। असम्बाधसमश्चैष कार्योऽयं काश्मशकरः ॥ ८॥ महारथ्याद्वयं कार्य तदुपान्तस्थवंशयोः । तद् द्वादश दशाष्टौ स्यात् करान् ज्येष्ठादिकं त्रिषु ॥९॥ पदमध्यगतं कार्य यानमार्गचतुष्टयम् । ज्येष्ठादिषु पुरेप्वेषु तत्पद्यं च चतुःकरम् ॥ १० ॥ उपरथ्या महामार्गस्या वा द्विशयाधिकम् । शेषा रथ्यास्तदर्धेन विधातव्याः प्रमाणतः ॥ ११ ॥ यानमागेचतुष्कस्य कार्यों पाश्चद्वयाश्रितो । पदाष्टकपदान्तस्थौ द्वौ द्वौ जवापथावपि ॥ १२ ॥
१. 'भासास्थं च ' ग. पाठः । २. 'शतिभिः क ' पारः । ३. 'तुःप्रान्त', ४. 'स्वार्धस्वादिसया' ख ग. पाठः ।
"Aho Shrut Gyanam"