________________
समराङ्गणसूत्रधारे सप्तभि(ई? दि)ष्टिरष्टाभिरङ्गुलैस्तूणिरिष्यते । • प्रादेशो नवभिस्तैः स्याच्छयतालो दशाङ्गुलः ॥ ४२ ॥ गोकर्ण एकादशभिर्वितस्तिदशाङ्गुला । चतुर्दशभिरुद्दिष्टः पादो नाम तथागुलैः ॥ ४३ ॥ रनिः स्यादेकविंशत्या स्यादरनिः करोन्मितः । द्वाचत्वारिंशता किष्कुरगुलैः परिकीर्तितः॥४४॥ चतुरुत्तरयाशीत्या व्यामः स्यात् पुरुषस्तथा । षण्णवत्यागुलैश्चापं भवेन्नाडीयुगं तथा ॥ ४५ ॥ शतं पडुत्तरं दण्डो नल्यस्त्रिंशद्धनुर्मितः । क्रोशो धनुःसहस्रं तु गव्यूतं तद्वयं विदुः ॥ ४६॥ चतुर्गव्यूतमिच्छन्ति योजनं मानवेदिनः ॥ एकं दश शतमस्मात् सहस्रमनु चायुतम् ॥ ४७ ॥ नियुतं प्रयुतं तस्मादबुदन्यर्बुदे अपि । वृन्दरक्वनिखवोणि शङ्कपद्माम्बुराशयः ॥ ४८ ॥ ततः स्यान्मध्यमन्त्यं च परं चापरमप्यतः । परार्ध चेति विज्ञेयं दशद्धयोत्तरोत्तरम् ॥ ४९ ।। सङ्खथास्थानानि कथितान्येवमेतानि विंशतिः । इदानीं कालसङ्ख्यायाः प्रमाणमभिधीयते ॥ ५॥ दृनिमेषो निमेपः स्यात् तैः पञ्चदशभिः स्मृता । काष्ठा ताभिः कला ताभिमुहूर्तस्तैरहर्निशम् ।। ५१ ।। त्रिंशतैतत् त्रिकं विद्यात् क्रमादित्युत्तरोत्तरम् । अहोरात्रैः पुनः पञ्चदशभिः पक्ष उच्यते ।। ५२ ।। पक्षद्वयेन मासः स्याद भवेन्मासद्वयातुः । ऋतुत्रयं स्यादयनं वत्सरस्त्वयनद्वयम् ॥ ५३॥
दशधायमिति प्रोक्तः कालः कालविदां वरैः । इत्युक्तमेतदखिलं करमानमत्र सम्यक्तया निगदितापि च कालसङ्खथा । अन्तःपुरं जनपदामरधाममार्गराचक्ष्महे नगरसंपविभागमत्र ॥ ५४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
हस्तलक्षणं नाम नवमोऽध्यायः ॥ १. 'व्यूति त', २. 'ति' क. पाठः ।
"Aho Shrut Gyanam"