SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Bu हस्तलक्षणं नाम नवमोऽध्यायः । अष्टाभिः सप्तभिः पद्भिरङगुलानि यवोदरैः। ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥ ५ ॥ सोऽष्टभिः पर्वभिर्युक्तः करः कार्यों विजानता। करस्यार्धं चतुःपर्व शेष स्याद् भक्तमङ्गुलैः ।। ६ ॥ तत्राग्रे पर्वरेखाः स्युस्तिस्रः पुष्पकभूपिताः । शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥ ७ ॥ अत्रार्धे मध्यतः कार्य द्वेषा पश्चममङ्गुलम् ।। मध्यं त्रिधाष्टमं कार्य चतुर्धा द्वादशं ततः ॥ ८ ॥ हस्तः स्वाङ्गुलमानेन विधेयाङ्गुल(मि?इ)ध्यते । तत् साधं द्विगुणं वापि बाहुल्यं तु तदर्धतः ।। ९ ।। कथितः करभेदोऽयमगुलानां विभेदतः ।। तस्य निर्माणदारूणि देवताश्च प्रचक्ष्महे ॥ १० ॥ खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् । सारवच भवेदिष्टं दारु हस्तप्रकल्पने ।। ११ ॥ ग्रन्थिलं लघु निर्दग्धं जीर्ण विस्फुटितं तथा ।। अदृढं कोटराकान्तं दारु हस्ताय नेष्यते ॥ १२ ॥ त्रिविधस्याप्यर्थतस्य पर्वरेखासु देवताः । + मध्यादारभ्य विज्ञेयाः क्रमेण नव वच्मि ताः ॥ १३ ॥ * ब्रह्मा वह्निर्यमो विश्वकर्मा नाथश्च पाथसाम् । वायुधेनाधिपो रुद्रो विष्णुश्चाग्रे जगत्पतिः ॥ १४ ॥ वास्तुद्रव्यविभागेषु यानेषु च विशेषतः । प्रारभेत यतो मानं कल्पयेद् देवतास्ततः ।। १५ ।। १. 'ध्यात्' ख. ग. पाठः । + 'मध्यपर्वत एकस्मिन् पार्श्वगणनया प्रान्तसंयुक्तानि चत्वारि पर्वाणि भवन्ति । मध्यादेव परस्मिन् पार्ने समध्यमपर्वत्वात् पञ्च भवन्ति । * ' मध्ये ब्रह्मा । ततो वामे पर्वणि वह्निः दक्षिणे पर्वणि यमः, पुनर्वा में विश्वकर्मा दक्षिणे वरुणः, पुनवामे वायुः दक्षिणे धनदः, पुनामे रुद्रो दक्षिणे विष्णुः । ततस्तु क्रमेण गणनायां रुद्रो वायुर्विश्वकर्मा वहिर्विधाता कालस्तोयेशः कुवेरो विष्णुरिति पर्वदेवता भवन्ति' इति टिप्पणमिह दत्तमस्ति । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy