________________
समराङ्गणसूत्रधारे विषमां साधयामास पृथिवीं पृथुविक्रमः । तत्सक्लेशेन गौ ल्वा नश्यन्ती तेन मेदिनी ॥ ३१ ॥ विधेर्नियोगाद् दुदुहे साधु सस्यानि भूतये । कल्पितास्तेन शैलानां सरितामन्तरेषु च ॥ ३२ ॥ समेषु चावकाशेषु पुरादीनां विभक्तयः । तेन सीरामकृष्टेयं धान्यैरुतैर्यथाविधि ॥ ३३ ॥ ससस्या क्रियते क्षोणी भगवत्यम्बुदागमे । इत्युद्भवो निगदितः प्रथमो नृपस्य
धर्मेण सार्धमपिचाश्रमवर्णभेदाः । प्रोक्ताः कृषिव्यतिकरोऽपिच दर्शितस्ते
कात्स्न्ये न वत्स! शृणु देशविभागभूमिम् ॥ ३४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः ॥
अथ भूमिपरीक्षा नामाष्टमोऽध्यायः ।
देशाश्च देशभूम्यश्च समासात् तव सम्प्रति । तत्सङ्ख्या तद्विभागाश्च प्रोच्यन्तेऽवहितः शृणु ॥ १ ॥ देशः स्याज्जाङ्गलानूपसाधारणतया त्रिधा। त्रिविधस्याप्यर्थतस्य यथावल्लक्ष्म कथ्यते ॥ २॥ दूराम्बुरिरिणप्रायो इस्वकण्टकिपादपः। रूक्षोष्णचण्डपवनः कृष्णमृत् तेषु जाङ्गलः ॥ ३ ॥ निम्नो भूरिजलः स्निग्धो वहुमत्स्यामिषों हिमः । स्यादनूपः सरित्प्रायः स्निग्धोच्छ्रितबहुद्रुमः ।। ४ ॥ यः पुनर्नातिशीतोष्णः स्याद् देशद्वयलक्षणः । स साधारण इत्युक्तो देशो देशविशारदैः ॥ ५ ॥
"Aho Shrut Gyanam"