SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । इत्याश्रमाः पृथक् तेन चत्वारः प्रविभाजिताः । गुरुशुश्रूषणं भैक्षं व्रतचर्यानिकर्म च ॥ १८ ॥ स्वाध्याय चाभिषेक धर्मोऽयं ब्रह्मचारिणः । पूजाग्न्यतिथिदेवानां स्ववृत्या जीवनं दमः ॥ १९ ॥ असमान पिंगोत्रेषु विवाह ऋतुगामिता । परस्य स्त्रीषु वैमुख्यं परानुग्रहशीलता ।। २० ।। विनिवृत्तिरकार्येभ्यो धर्मोऽयं ग्रहिणां कृतः । देवतातिथिसत्कारो ब्रह्मचर्यं वने स्थितिः ॥ २१ ॥ वल्काजिनजटाचीरधारणं शयनं भुवि । उपोषणैर्वतैर्देहकर्शनं नियमैस्तथा ॥ २२ ॥ आहारोऽकृष्टपच्यैव धर्मोऽयं वनवासिषु । वैराग्यमिन्द्रियजयश्चिन्तात्यागः प्रशान्तता || २३ ॥ आकिञ्चन्यमनारम्भो यतिधर्मः सदा स्मृतः । क्षमत्वं गुर्वधीनत्वं शौचं स्वाध्यायनित्यता || २४ || विशुद्धिर्व्यवहारेषु शिष्यधर्मोऽयमीरितः । शुचित्वं वाङ्मनः कायैः पतिशुश्रूषणं क्षमा ।। २५ ।। पूजनं पतिपूज्यानां स्त्रीधर्मः शौचमेव च । एवं वर्णाश्रमान् सम्यक् कृत्वा वर्णास्तदुद्भवान् || २६ ॥ विभज्य तेषां वैन्येन ते ते धर्माः प्रकीर्तिताः । वृत्तिं कर्माणि चैतेषां पृथगुदिश्य सोऽभ्यधात् ॥ २७ ॥ स्वधर्मावस्थितानां वो भावि लोकद्वये सुखम् । एतां स्थितिमुल्लङ्घय मोहादन्यद् विधास्यति ॥ २८ ॥ तस्याहं यमवत् क्रुद्धः करिष्याम्यनुशासनम् । युक्तानां कर्मसु स्वेषु वृत्यर्थं भवतामहम् ।। २९ ।। खेटकग्रामवेश्मानि विधास्यामि पुराणि च । इत्युक्त्वा सानो कोट्या कार्मुकस्य पृथुर्नृपः ॥ ३० ॥ १. 'भूत्यर्थ' ख. ग. पाठः । "Aho Shrut Gyanam" २७
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy