SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २५ इत्थं दुःखनयास्तेि व्यवायाधभिगुप्तये । हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपिच ।। ३४ ॥ अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि (तेच)। व्यधुश्छित्वाश्मभिक्षानन्यान् दुःखातेचेतसः ॥ ३५ ॥ स्मृत्वा कल्पद्रुमाकारांस्तद्रूपाणि गृहाणि ते । एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥ ३६ ।। श(ब्दा? प)प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः । हृष्टास्तेष्वनयन् कालमाप्तेषु गृहमेधिनः ।। ३७ ॥ इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु । हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥ ३८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सहदेवाधिकारो नाम पष्ठोऽध्यायः ।। अथ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । अथामरगणैः सार्धमाजगाम पितामहः । दुःखच्छेदाय मानामादाय नृपतिं पृथुम् ।। १ ।। स तानूचे प्रभुर्वोऽसौ मरुतामिव वासवः । दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥ २ ॥ प्रतापतापितारांतिसिंहः सिंहपराक्रमः । युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥ ३ ॥ रक्षाकृत् सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम् । वृत्तितो भीतिहर्ता च भविष्यत्येष वो नृपः ॥ ४॥ १. 'कामानाते' ख, ग, पाठः । २. 'रातिः शश्वत् सि' क. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy