________________
समरांगणसूत्रधारे विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे । अथैषां पश्यतामेव कदाचिद् भाग्यसंक्षयात् ।। २२ ॥ विपर्ययाच कालस्य भूमेः पर्पटकोऽप्यगात ।। ततः पपेटके नष्टे तुषशूककणोज्झिताः ॥ २३ ॥ अकृष्टपच्या मेदिन्यामभवञ् शालितण्डुलाः । शाल्योदनेन तेनाथ सुस्वादुव्यञ्जनेन ते ।। २४ ॥ परमां तृप्तिमासेदुः परितोषात्तचेतसः ।। तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वधः ॥ २५ ॥ ते व्यधुर्महतो राशीस्तक्षेत्राणि च चक्रिरे । अजायत ततो लोभो मात्सर्येष्योपुरस्सरः ॥ २६ ॥ तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः । द्वन्द्वप्राप्त्या ततस्तेषां विभ्रतामुत्तमां गतिम् ॥ २७ ॥ धैर्यध्वंसादभूत स्त्रीषु भृशं रागतुरङ्गमः । दारक्षेत्रनिमित्तानि भूयास्येपामनन्तरम् ॥ २८ ॥ परिक्लेशैकमूलानि द्वन्द्वान्यासन पृथक्पृथक् । ततः स्वक्लुप्तमर्यादोच्छेदिष्वेष्वजितात्मसु ॥ २९ ॥ अविनीतेष्वभाग्येषु स शालिस्तुषतामगात् । प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥ ३० ॥ मलप्रवृत्तिरभवत तुषधान्योपसेवया । तुषधान्ये ततो नष्टे परिमुक्ते च सञ्चये ॥ ३१ ॥ चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम् । ऋतवः कालपयोसात् षड् वसन्तादयोऽभवन् ॥ ३२ ॥ ततस्तेषामभूद दोषरोगशोकाकुलं वपुः । मनश्च कामक्रोधेादैन्याच्यादिदूषितम् ॥ ३३ ॥ आधिदैवकमुष्णाम्वुशीतादिजनितं महत् । आधिभौतिकमप्यासीद् दुःखं व्यालमृगादिनम् ॥ ३४ ॥ १. 'स्ततः क्षेत्राणि चक्रि' ख. ग. पाठः । २. 'दास्वनिष्टेष्व क. पाठः।
"Aho Shrut Gyanam"