SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे पक्षमास वर्षादीन् व्यवहाराय कल्पयेत् ।। १०४ ॥ इति निगदित एप द्वीपशैलाम्बुधीना मवनिवलयवती कात्स्य॑तः सनिवेशः। गतिरपि दिनभर्तुः कीर्तिता विश्वमानं पुनरिह युगधर्म कीर्त्यमानं निबोध ॥ १०५ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भुवनकोशाध्यायः पञ्चमः ॥ अथ सहदेवाधिकारः षष्ठोऽध्यायः । अथ प्राकथितादस्माद् भूतसर्गादनन्तरम् । प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ।। १ ॥ शोकव्याधिजरातङ्कविमुक्तास्त्रिदशा इव ।। पुराभवन् कृतयुगे पुमांसः स्थिरयैवनाः ॥ २ ॥ ते निकुञ्जषु शैलानां नदीषु च सरस्सु च । वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥ ३॥ हेलया ते समुत्पत्य कदाचिदमरैः सह। निरर्गलाः समासाथ स्वर्विचेरुः सुरा इव ।। ४ ॥ चित्राम्बराहताः सर्वे नानाभरणशालिनः । विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥ ५ ॥ मनोज्ञाभिः सह स्त्रीभिर्विचित्राभर(णास्त्रि?णश्रि)यः । कल्पद्रमेष्वकार॑स्ते वासं क्रीडां च तेष्वथ ॥ ६॥ क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः । रत्नावदातदेहास्ते कदाचिद् भूरसाशिनः ॥ ७॥ रतिमायास्तदासंस्ते स्वेच्छाहारविहारिणः । स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥ ८॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy