SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधार ऐन्द्री वस्वोकसारा प्राग याम्या संयमनी ततः । पाचेतसी सुखा पश्चात् तथा सौम्युत्तरे विभा ॥ ७८ ॥ धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि । तथा लोकव्यवस्थार्थ पृथग लोकभृतः स्थिताः ॥ ७९ ॥ लोकालोकाचल: स्वादुसलिलाद् द्विगुणो बहिः । स्वादूदाब्धिप्रमाणात् स विस्ताराद् द्विगुणोऽपिच ।। ८० ॥ समच्छितोऽसौ नियुतं नियुतार्धमधो गतः। पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥ ८१ ॥ तद्वच्च नियुतस्या मेरुमध्यात् तदन्तरम् । समुद्भासितदेहाधस्तिग्मांशोः किरणैरयम् ॥ ८२॥ तत्समेन च भूम्यर्धेनादृतः परतः पुनः । भौतान्यावरणान्युा यस्यैतानि स्थितान्यधः ॥ ८३ ॥ वाह्यतोऽपिच भूम्यूर्व निविष्टानि तथानघ। इति वत्स! तव प्रोक्तः सनिवेशोऽखिलः क्षितेः ॥ ८४ ॥ स्थितिं गतिं च कथयाम्यादीनामतःपरम् । सूर्येन्दुधिष्ण्यज्ञसितभौमार्कित्रिदशार्चिताः ॥ ८५ ॥ सप्तर्षयो ध्रुवश्चेति भूमेरूज़ क्रमात् स्थिताः । चत्वारि द्वे तथा भूमेरूर्वमा मूर्यनन्दनात् ॥ ८६ ॥ पडेवमन्तराणि स्युः सहस्राणां शतं शतम् । ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥ ८७ ॥ तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः । धरित्रीध्वयोमध्ये योजनानां चतुदेश ॥ ८८ ॥ नियुतानि समुत्सेधस्टेलोक्यस्य प्रकीर्तितः । एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥ ॥ ८९ ॥ महोजनस्तपःसत्यलोकानामुपरि ध्रुवात् । ये स्थिताः सत्यलोको मधस्तादण्डकपरात् ॥ ९० ॥. एका कोटिर्भवेत् तेषां पञ्चाशनियुतान्विता । अथावरणयोगोऽस्य विहितः (स?प)अजन्मना ॥ ९१ ॥ "Aho Shrut Gyanam
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy