________________
समराङ्गणसूत्रधारे परिक्षिप्तोऽयमुक्तस्ते जम्बूद्वीपो मयाखिलः । द्वादशाम्बुनिधावत्र पृथग् भूमिभृतः स्थिताः ।। ५२ ॥ अयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः । मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥ ५३॥ नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे । उदग्भागेऽपिच द्रोणकङ्कचन्द्रा इति त्रयः ॥ ५४ ।। धूम्रको दुन्दुभिश्चैव सार्द्रकश्चेति पूर्वतः । सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ।। ५५ ॥ मनास्तदर्धगम्भोधौ विस्तृताश्व धराधराः । जुष्टाः सर्वे सुरैः शृङ्गप्रौहिलीढविहायसः ।। ५६ ॥ ज्वलितोषधयः कान्तविचित्रद्रुमवीरुधः । द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ।। ५७ ॥ गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः । क्षीराज्यदधिमोक्षुरसस्वाद्वम्भसोऽर्णवाः ।। ५८ ॥ द्वीपान शाकादिकानेते परिवार्य स्थिताः क्रमात् । स्वद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥ ५९ ।। अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः । यथाक्रमं स्युढिगुणास्तथाम्भोनिधयोऽपिच ॥ ६० ॥ शाके सप्ताद्रयस्तेषूदयो जलधरस्तथा । नारको रेवतः श्यामो राजतोऽथाम्बिकेयकः ॥ ६१॥ चतुःसाहसिकस्तेषां विष्कम्भोऽय समुच्छ्रयः । तदर्थं भूप्रदेशश्च सेवितानां सुरर्षिभिः ।। ६२ ॥ वृत्तानां द्वीपवत् तेषां बाह्यतोऽभून्यनुक्रमात् । वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥ ६३ ॥ जलदाख्यं कुमारं च सुकुमारं मणीचकम् । कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥ ६४ ॥ १. 'तालकु', २. 'जा' ख. पाठः। ३. 'जयः' ग. पाठः ।
"Aho Shrut.Gyanam"