SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भुवनकोशः पञ्चमोऽध्यायः । एकत्रिंशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते । यान्युक्तानि पडन्यानि वर्षाण्येभ्योऽवराणि *ते ॥ ३९ ॥ तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता । . वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥ ४० ॥ जीवन्त्ययुतमब्दाना जात्यजाम्बूनदत्विपः । हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥ ४१ ॥ सायुतं च सहस्रं ते जीवन्ति रजतत्विषः । इलाहते नराः पद्मरागभासोद्गतास्तथा ।। ४२ ॥ जम्बूफलरसाहाराः सपादायुतजीविनः ।। नास्मिन् मेरुतदच्छन्ने तारकार्केन्दुरश्मयः ॥ ४३ ॥ स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी । कैरवोदरसच्छाया भद्राश्वे साङ्गना नराः ॥ ४४ ॥ नीलाम्रकफलाहारा भवन्त्यत्रायुतायुपः । दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥ ४५ ॥ शरदामयुतं तेषामायुः पनसभोजिनाम् । श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग जनः ॥ ४६ ।। हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुपः । श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्यके ॥ ४७ ।। जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः । कुरुष्वभीष्टदैवृक्षर्जीवन्ति स्त्रीयुता नराः ॥ ४८ ।। सपादमयुतं देवगर्भभा गौरकान्तयः । पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥ ४९ ॥ शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदासुखी । वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥ ५० ॥ उद्भिज्जाद्भिर्नदीभिश्च तेस्तैस्तुङ्गैश्च पादपः । उदञ्चद्वीचिमालेन लारणेनाधिना वहिः ॥ ५१ ॥ * ते तव । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy