________________
समराङ्गणसूत्रधारे पितृणामालयः शृङ्गेरुच्छ्रितेः शृङ्गवान् गिरिः।। हिगांचलस्य याम्येन क्षाराधिकृतमन्यतः ॥ २७ ॥ वर्ष स्याद् भारतं नाम प्रथमं कामुकाकृति । तुषारनिलयस्यादेमकूटाचलस्य च ।। २८ ॥ मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम् । अन्तरे हेमकूटस्य निषधस्य च भूभृतः ।। २९ ॥ हरिवर्पमिति प्रोक्तं तृतीयं वर्षमुत्तमम् । निपधाचलनीलाद्रिमाल्यवद्गन्धभूभृताम् ।। ३० ॥ चतुर्णा मध्यगं वर्ष तुर्यमस्मिन्निलावृतम् । उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥ ३१ ॥ पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम् । श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ।। ३२ ॥ मध्ये पष्ठं हिरण्यांशुरम्यं हैरण्यकाट्यम् ।
अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥ ३३ ॥ कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते । अन्तरा नीलनिपधो प्राग्भागे माल्यवगिरेः ॥ ३४ ॥ भद्राश्चमष्टमं वर्ष प्राक्समुद्रान्तमीरितम् । गन्धमादनशैलस्य प्रत्यक् प्राक् चापराम्बुधेः ॥ ३५॥ नवमं वर्षमाचार्याः केतुमालं प्रचक्षते । इति प्रोक्तानि वर्षाणि नवामूनि मया तव ।। ३६ ॥ साम्प्रतं पुनरेतेषां प्रमाणमवधारय । प्रमाणेन सहस्राणि चतुस्त्रिंशचतुर्दिशम् ॥ ३७ ॥ योजनानामिहेच्छन्ति चतुरश्रमिलावृतम् । प्राक्प्रत्यग्भागो वर्ष तस्योदग्याम्यतः समे ॥ ३८ ॥
१. 'मध्यतः' ख. ग. पाठः
"Aho Shrut Gyanam"