________________
भुवनकोशः पञ्चमोऽध्यायः योजनानां सहस्र दे सार्धे स्यादुच्छ्रयस्तयोः । श्वेतश्च हेमकुटश्चेत्यन्तयोः पृथिवीधरौ ।। १५॥ योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः । निषधाचलनीलाद्रिमाल्यवद्गन्धमादनाः ॥ १६ ॥ सहस्रयोजनोच्छ्रायाचत्वारोऽमी पृथक्पृथक् । एतेऽष्टावपि शैलेन्द्राः सहस्रदयविस्तृताः ।। १७ ॥ उच्छ्याधमधश्चापि विलग्नाः सह मेरुणा । मेरोः समुच्छ्योऽशीतिः सहस्राणि चतुर्युता ।। १८ ॥ षोडशाधः सहस्राणि द्वात्रिंशन्मूर्तीि विस्तृतिः । जम्बूतर्महान् मध्ये सुमेरोर्निपधस्य च ।। १९ ॥ दीपस्यामुष्य ययोगाज्जम्बूद्वीप इति श्रुतिः। शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् !। २० ॥ महान्तो निवसन्यत्र पिशाचा यक्षराक्षसाः । कूटेहेममयेहेमकूट इत्यवनीधरः ॥ २१ ॥ यं सर्वतो निपेवन्ते सदा चारणगुह्यकाः । तरुणाकेप्रभाजालप्रतिमो निषधाचल: ।। २२ ॥ निवसन्ति सुखं तत्र शेषवासुकितक्षकाः। हेमाजकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥ २३ ॥ अत्रामराः साप्सरसस्त्रयस्त्रिंशद् वसन्ति ते । वैडूर्यनद्धैः शिखरैनीलो नीलमहीवरः ॥ २४ ॥ कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् । श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभितः ।। २५ ।। दोर्दर्पशालिनां यत्र निवासस्त्रिदशदिषाम् । महानीलमयो बर्हि पिञ्छच्छायो बहिर्महान् ।। २६ ॥ १. 'द्वे द्वे साधे उच्छु' ख. ग. पाटः । २. 'त', ३. 'ततो नि', ४. 'स्थिताः'
क पाटः।
"Aho Shrut Gyanam"