________________
समराङ्गणसूत्रधारे मेदिन्याः परिधिस्तावोजनैः परिकीर्तितः । द्वात्रिंशत्कोटयः पष्टिलक्षाणि परिधिः क्षितेः ॥३॥ अशीतिश्च सहस्राणि योजनानां प्रकीर्तितः । योजनानां सहस्राणि विंशतिर्लक्षयोयम् ।। ४ ।। इति बाहुल्यमेतस्याः क्षितेर्वत्स ! तवोदितम् । चतुर्णा सलिलादीनां भूतादेर्महतोऽपि च ॥ ५ ॥ उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः । तोयादिपु स्थितेयं भूश्चक्रवद् वृत्तशालिनी ॥ ६ ॥ पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् । प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥ ७ ॥ द्वीपादीनां तु पाथोधिनिवेशः पुनरुच्यते । दीपानामम्वुधीनां च सप्तानामपि मध्यगः ॥ ८॥ जम्बूद्वीपो भवेद् वृत्तः सहस्रर्शतविस्तृतः । हिमाद्रिहेमकूटाख्यो निषधो नीलसंज्ञितः ॥९॥ श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः । एतस्मादुत्तरेणाद्रेस्तुपाराङ्कितमेखलात् ॥ १० ॥ पूर्वापरायताः सर्वेऽप्यद्रयो यावदम्बुधि । अन्तरा नीलनिषधो जम्बूद्वीपस्य नाभिगः ॥ ११ ॥ वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुमहाचलः । उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥ १२ ॥ सेवितः सिद्धनारीभिरानीलनिषधायतः । सुमेरोः पश्चिमेनाद्रिर्गन्धर्वकुलसकुलः ॥ १३ ॥ माल्यवत्सदृशायामो महीभृद् गन्धमादनः । पर्वतावुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥ १४ ॥
१. 'वर', २. 'हार', ३. 'पावनीषु पाोधेर्निवे' ख, ग, पाटः । ४. 'समवि' क. पाठः।
"Aho Shrut Gyanam"