SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भुवनकोशः पञ्चमोऽध्यायः । अरण्यगोचरा जीवाः सप्तैते वत्स! निर्मिताः । धर्माधर्मविवेकित्वाच्छ्रेयान् ग्राम्येपु पूरुषः ।। ३२ ।। अरण्यचारिपु श्रेष्ठः सिंहः शौर्यबलादिभिः । सुपर्णों भुजगाः कीटाः येऽपि च स्युः पिपीलिकाः ॥ ३३ ॥ चतुर्धेत्यण्डजन्मानो जन्मिनस्ते प्रकीर्तिताः। 'लेद (केपीकेश)समुद्भूताः कृमियूकादिजन्तवः ॥ ३४ ॥ सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः। उद्भिज्जाः पञ्चधा भू(त्वा? त्था) निर्दिष्टाः स्थावराश्च ते ॥ ३५॥ दुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः।। छन्नान्तःकरणत्वं च स्वस्थानात्यागितापि च ॥३६ ॥ छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् । गायत्री भूतसंह(पां? पा) चतुर्विंशतिपर्विका ।। ३७ ॥ ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् । भुवनभूजलवझिमरुद्वियत्प्रमुख एप भवस्तव कीर्तितः । वसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स! मे ॥३८ । इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महदादिस(गा ? गा)ध्यायचतुर्थः ॥ अथ भुवनकोशः पञ्चमोऽध्यायः। अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते । विष्कम्भपरिधी वत्स ! वाहुल्यमपि च स्फुटम् ॥ १ ॥ विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः । लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः । विष्कम्भत्रिगुणो यावद विष्कम्भांशश्च पञ्चमः ॥ २॥ . १. 'क्लेशकोपुस : (१), २. 'ये' ख, ग. पाटः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy