________________
महदादिसर्गश्चतुर्थोऽध्यायः ।
त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः ।
राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥ ८ ॥
तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् । व्योमादीनि धरान्तानि स्त्रैः स्वैर्युक्तानि तैर्गुणैः ॥ ९ ॥
अधरोत्तरभावश्च सम्यगेषामथोच्यते । आदौ पृथ्वी ततोsधस्तादापस्तासां च पावकः ॥ १० ॥
तस्याप्यधस्तात् पवनस्ततः खमवकाशदम् । भूतादिस्थं वियत् सोऽपि महता परिवारितः ॥ ११ ॥ महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः । ग्राहयग्राहकभावेन व्यक्तको भूतसमुद्भवः || १२ | आधाराधाभाव यथार्थी च स्थितिव्ययौ । महाभूतानि सगुणान्येवं सृष्ट्रा ततः प्रभुः ॥ १३ ॥ मनः पुनरसौ सर्गे भौतिके सम्यगादधौ । सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान् ॥ १४ ॥
'नागान् मुनीनप्सरसो मनसा समजीजनत् । अर्केन्दु चक्षु (पी? पो) जातो गगनभ्रमणक्षमौ ॥ १५ ॥
गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत । इन्द्रियेभ्यश्च पञ्चभ्योऽभूत् ताराग्रहपश्चकम् ॥ १६ ॥ ग्रहत्वं पुनरेतेषामिन्द्रियग्रहणाद् विदुः । सुरेन्द्रचापचिह्नानां विद्युद्वलयशालिनाम् ॥ १७ ॥ भीमाशनिभृतां चासीत् केशेभ्योऽम्बुचां भवः । विश्वमापूरयन् कृत्स्नमाविरासीत् तदिच्छ्या ॥ १८ ॥
त्रिलोकीपानस्तिर्यग्गामी चण्डः समीरणः । ततश्चण्डानिलोतमुपशुतापितम् ।। १९ ।।
१.१
१.
' ( सावित्री पुनरप्सरसः १ सावित्रीं चाप्यप्सरसः ) ' ख, ग पाठः । २. ' ' पाठः
"Aho Shrut Gyanam"