SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु । मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ।। ५९ ॥ जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः । इत्येवमादिकमनेकविध विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च । अस्मास्वनल्पकरुणादितचित्तवृत्तिर्व्याख्यातुमर्हसि सगस्तमनुक्रमेणा॥६०॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनानि वास्तुशास्त्रे प्रश्नाध्यायस्तृतीयः ॥ अथ महदादिसर्गश्चतुर्थोऽध्यायः । जयस्येति समाकर्ण्य विश्वकर्मा च तद् वचः । जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥१॥ साधु वत्स! त्वया सम्यक् प्रज्ञयातिविशुद्धया । प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥ २ ॥ स त्वं निधाय प्रश्नानां समुदायममुं हृदि । वदतो मेऽवधानेन शृणु यद् ब्रह्मणोदितम् ॥ ३ ॥ इदमासीद् युगान्ताग्निप्लुष्टं संवर्तकादिभिः । समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥ ४ ॥ तमोभूते ततस्तस्मिन् भोगिपर्यङ्कमाश्रितः । हरिः सुष्वाप सलिले कृत्वोदरगतं जगत् ।। ५ ॥ अथास्य नाभावम्भोजमभूत् तस्मिन्नजायत । सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥ ६ ॥ स कदाचिद् दधचेतः प्रजासृष्टिं प्रति प्रभुः । महान्तमसृजत् तत्र पूर्व विश्वस्य हेतवे ॥ ७ ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy