SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधार किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः। लोके कथं महाभूतान्यूर्वाधो विभ्रति स्थितिम् ॥ ८ ॥ युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः । कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ॥ ९ ॥ कति देशाः कति भुवः पृथक्त्वेन निरूपिताः । कार्यः क च कथं सन्निवेशो जनपदाश्रयः ॥ १० ॥ व्यक्तचिह्नः स्वनस्पर्शगन्धवर्णरसादिभिः । काः शस्ता निन्दिताः काच पुराणामपि भूमयः ॥ ११ ॥ कार्य केन विधानेन भूभृत्पुरनिवेशनम् । किं फलं सुनिविष्टेऽस्मिन् दुनिविष्टे च किं पुनः ॥ १२ ॥ कतिप्रकारं दुर्ग च दुर्गकर्मक्रमश्च कः । किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ॥ १३ ॥ कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः । प्राकारगोपुराट्टालपरिखावप्रकर्म च ।। १४ ।। तमङ्गनिर्गमद्वारमतोल्यट्टालकादिभिः । कीदृशः प्रविभागश्च रथ्याचत्वरवमभिः ॥१५॥ भूमिप्रमाणसंस्थानं सीमा च क्षेत्रदिक्पथैः । नगरपामखेटानां निवेशाः स्युः पृथक्पृथक् ॥ १६ ॥ पुरस्याभ्यन्तरे पूर्व कै व्यावयवक्रमैः । कस्मिन् स्थाने कथं कार्य शक्रवजनिवेशनम् ।। १७ ॥ प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः। हिताय नृपलोकानां विधातव्यो महोत्सवः ॥ १८ ॥ गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च । भागैर्वाह्यान्तरेः कैः कैः कार्याः काः काश्च देवताः॥१९॥ कैः कर्यानपरीवारवर्णरूपविभूपणैः । कार्याः कैः कैः सुरा वस्त्रवयोवेपायुधध्वजैः ॥ २० ॥ १ 'भू' क, ग, पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy