________________
प्रश्नस्तृतीयोऽध्यायः । तानित्थमात्मतनयानभिधाय सम्यक्
सारार्थभूतमपरिस्फुटतोज्झितं च । 'स्थानार्पितोरुभरनिवृतचित्तवृत्ति
स्तूष्णी प्रभासतनयो नयविज्जगाम ।। १५ ।। इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्न वास्तुशास्त्रे
*विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ॥
अथ प्रश्नो नाम तृतीयोऽध्यायः ।
अथ तेषु जयो नाम वाक्यं तद विश्वकर्मणः । श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥१॥ ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल । वृणोषि तेन न वयमात्मानं बहुमन्महे ।। २ ।। तदिदानी हितार्थे नः प्रजानामपि च प्रभो!। अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥ ३ ॥ पूर्वमेकार्णवे जाते जगति प्रलयं गते । महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥ ४ ॥ किमाकारा किमाधारा किंप्रमाणा च मेदिनी । विस्तृतिः परिधिवास्या बाहुल्यमपि कीदृशम् ॥ ५ ॥ उच्छायव्यासदीर्घत्वैः के केऽस्यां कुलभूभृतः । कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥ ६॥ काः सूर्येन्दुग्रहादिगतयश्च पृथक्पृथक् । भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥ ७॥
१. 'स्थानार्पणातिशयनि', २. 'जयविजयसिद्धार्थापराजितमुतागमनो नाम' का पाठः । ३. 'प्रभोः 'ख. पाटः।
5 तूष्णीं मौनमित्यर्थः ।
"Aho Shrut Gyanam"