SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ समराङ्गणमूत्रधारे नांनुवाच मुनिर्वत्सा! विदितं वो यथा पुरा । 'वास्तु ब्रह्मा स(पर्या? सर्जा)दौ विश्वमप्यखिलं तथा ॥ ४ ॥ धर्म्य कर्म तदा श्रेष्ठयप्राप्त्ये लोकावनानि च । व्यवस्थाप्य चकारैष लोकपाल (श्च?स्य) कल्पनाम् ।। ५ ।। अहमप्यमुना विश्वनाथनाम्बुजजन्मना। लोकानां सन्निवासार्थमादिष्टोऽस्मि स्वयम्भुवा ॥ ६ ॥ रम्याणि नगरोद्यानसभास्थानान्यथो मया । मुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥ ७ ॥ गत्वोर्वी "वैन्यनृपतेर्वत्साः ! प्रियचिकीर्पया। नगरग्रामखेटादीन् करिष्यामि पृथक पृथक् ।। ८ ॥ कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते । सम्यक्साहायकेभाव्यं भवद्भिरिति नः स्थितम् ॥ ९॥ यतस्त्रिभुवनालोकप्रद्यातस्याब्जिनीपतेः । सहायतां तमश्छेदे कलयन्ति मरीचयः ॥ १० ॥ स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम् । विचित्रनगरग्रामखेटांमतिमनोहराम् ॥ ११ ॥ भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् । तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकृताश्रयान् ॥ १२ ॥ अन्तरेवध्वपाथोधिशैलानां सरितां तथा । विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥ १३ ॥ वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः । विधेयानि प्रतिग्रामं प्रतिपूः प्रतिपत्तनम् ॥ १४ ॥ १. 'बास्तुबहा सदा विश्वं व्याप्नोति सकलं जगत् ', २. 'टानतिमनोहरान् । *. पाठः। ३. 'णि संजारामय ' ख. पाठः । * वैयनृपतेः वेनसूनोभूपतेः पृथोरित्यर्थः । -. -.-.. . "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy