SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २६२ समराङ्गणसूत्रधारे प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम् | arturist भागविस्तृतो भागिकोदयः ॥ ६३ ॥ गर्भवेश्म चतुःस्तम्भमलिन्दो भागिको बहिः । तस्य स्युर्द्वादश स्तम्भा भागिको लिन्कोऽपरः ॥ ६४ ॥ विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः । चयावृतेश्च पुरतो भागो वाष्टधरान्वितः ।। ६५ ।। भागमुत्सृज्य कर्णाभ्यां भागविस्तृतौ । भागिकोच्छ्रायनिष्कासौ कार्यों प्राग्रीवकौ पुनः ॥ ६६ ॥ बाह्यतो भित्तिसंश्लिष्टौ त्रिदिशं सगवाक्षकौ । स्वस्तिकोऽयं समाख्यातः प्रासादचित्रलक्षणः ॥ ६७ ॥ स्वस्तिकः । अथाभिधीयतेऽधुना प्रासादः । शुभलक्षणः । $ षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥ ६८ ॥ द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत् । भागद्वयेोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥ ६९ ॥ निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत् । तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥ ७० ॥ गर्भस्तम्भप्रमाणेन तानि स्तम्भद्वयेन वा । समुत्क्षिप्तानि युक्तानि कलशै रविमण्डलैः ॥ ७१ ॥ पल्लवैः पत्र जात्यादिविन्यासैश्वाप्यनेकशः । भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥ ७२ ॥ स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ । अन्योन्याभिमुखे" श्लिष्टे कुर्यान्मकरयोर्मुखे ॥ ७३ ॥ चतुर्णामपि निर्दिष्टस्तोरणानां मया विधिः । अलिन्दो भागिकचान्यो बहिर्भागे प्रकीर्तितः ॥ ७४ ॥ १. 'र्धे', २. 'त्त 'क. पाठः | ३. 'दं' क, 'द' ख. ग. पाठः । ४. ' श्रि ' ख. ग. पाठः। ५. 'खौ ' ख. पाठः । 'क्षितिभूषण' इति पाठः । स्यात् । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy