________________
२५६
__ समराङ्गणसूत्रधारे उञ्चच्छाद्यं छिद्रगर्भ भ्रमितं वमितं मुखे । हीनमध्यं नष्टसूत्रं शल्यविद्धं शिरोगुरु ॥ १३६ ॥ भ्रष्टालिन्दकशोभं च विषमस्थं तुलातलम् । अन्योन्यद्रव्यविद्धं च कुंपदप्रविभाजितम् ।। १३७ ।। हीनभित्युतमाङ्गं च विनष्टं स्तम्भभित्तिकम् । भिन्नशालं त्यक्तकण्ठं निष्कन्दं मानवर्जितम् ॥ १३८ ॥ विकृतं च गृहं भर्तुरनिष्टफलदायकम् ।
तस्माद् दोषानिमांस्त्यक्त्वा गृहं कुर्याच्छुभावहम् ॥ १३९ ॥ एवंविधं दोषकरं गृहं स्याद् भर्तुत्र कर्तुश्च यतस्तदेते । ज्ञेयाः सदा शिल्पिभिरप्रमत्तैस्त्याज्याश्च दोषाः शुभकीर्तिकामैः ॥ १४०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ॥
अथ रुचकादिप्रासादलक्षणं नामैकोनपश्चाशोऽध्यायः।
त्रिदशानां नृपाणां च वर्णिनां च विशेषतः । उत्पत्तिप्रसूतिं ब्रूमः प्रासादा यस्य ये मताः ॥१॥ पुरा ब्रह्मासजत् पञ्च विमानान्यसुरद्विषाम् । वियद्वनविचारीणि श्रीमन्ति च महान्ति च ॥ २ ॥ तानि वैराजकैलासे पुष्पकं मणिकाभिधम् । हैमानि मणिचित्राणि पञ्चमं च त्रिविष्टपम् ॥ ३ ॥ .: 'नि' ख. ग. पाठः। २. स्वय', ३. 'सि', ४. 'त' क. पाठः।
"Aho Shrut Gyanam"